2023-08-18 12:34:54 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  अपि च ।
  
  
  
   
  
  
  
तुरीयाश्वासः
   
  
  
  
  
  
  
  
   
  
  
  
'अतीतत्रैगुण्यामशरणशरण्यां भगवतीं
  
  
  
  
  
  
  
अहं तामालम्बे दृढतरमहन्तां पशुपतेः ।
  
  
  
  
  
  
  
तदाद्यं तत्त्वानामजरमपरिच्छेद्यमपरं
  
  
  
  
  
  
  
पराभूतद्वैतं परमपदमाविर्भवतु मे ॥ १६ ॥'
  
  
  
   
  
  
  
२८३
   
  
  
  
  
  
  
  
   
  
  
  
[commentary]
   
  
  
  
मायेति कर्मधारये 'आन्महत: तः' ( 6-3-46६.३.४६) इत्यादिना महत आकारः । तस्यास्सम्बुद्धिः ।
  
  
  
   'स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः' इत्यमरः । तस्या जगन्मोहत्वा-
  
  
  
  च्छाम्बरीवन्मायात्वमिति भावः । हे महेश्वरि जगन्नियन्त्रीत्यर्थ:थः । हे जगदूद्रूपिणि
  
  
  
जं जगत्स्वरूपे । प्रकृतिकार्यत्वादिति भावः । हे परदेवते त्वत्तव सौभाग्यं माहात्म्यं
  
  
  
   तदेव महाविभूति:तिः तस्य वा महाविभूतिस्सम्पत् । 'भूतिर्भस्मनि सम्पदि
  
  
  
'' इत्यमरः । तस्याः कणिका लेशः तस्याः यो लेशः तस्य लेशायते लेशवदाचरति
  
  
  
' इत्यर्थः ॥ अतीतेति ॥ त्रिगुणा एव लैगुण्यम् । चतुर्वर्णादित्वात् स्वार्थे
  
  
  
ष्यञ् प्रत्ययः ।त्रैगुण्यमतिकान्ता अतीतम् । चतुर्वर्णादित्वात् स्वार्थे ष्यञ् प्रत्ययः । त्रैगुण्यमतिक्रान्ता अतीतत्रैगुण्या । यतः स्वयमेव त्रिगुणात्मिका
  
  
  
   ततः 'स्वातिरिक्त सत्त्वरजस्तमोगुणत्रयरहितेत्यर्थः । तथाभूतां अविद्यमानं शरणं
  
  
  
   रक्षको येषाषां ते अशरणा:णाः अस्मदादयः तेषां शरण्यां रक्षणधुरीणामित्यर्थः ।
  
  
  
   'शरणं गृहरक्षित्रो:रोः' इत्यमरः । भगवतीं माहात्म्यवतीम् । 'भग:गः श्रीकाममाहा -
  
  
  
त्स्त्म्यवीययलार्ययत्नार्ककीर्तिषु' इत्यमरः । पशुपतेः परमेश्वरस्य अहमो भावः अहन्ता,
  
  
  
   अहङ्काररूपिणीत्यर्थः । तदुक्तं 'पुरमथितुराहो पुरुषिका ' "'[^१]  इति । तथाभूतां तां
  
  
  
   परदेवतां अहं अतिशयेन दृढं दृढतरम् । 'गाढबाढहदृढानि च' इत्यमरः ।
  
  
  
   आलम्बे घ्ध्यायामीति तात्पर्यार्थः । अविद्यमाना जरा यस्य तदजरं देशकाल -
  
  
  
  वस्तुभिः परिच्छेत्तुं अनर्हमपरिच्छेद्यं अप्रमेयमित्यर्थः । अमलं निर्मलं पराभूतं
  
  
  
   तिरस्कृततं द्वैतं येन तत्तथाभूतम् । तत्त्वानां पञ्चविंशतिसङ्ख्याकानां आद्यं
  
  
  
   प्राथमिकं तत्तत्त्वमित्यर्थः । मे मम आविर्भवतु स्फुरतु । चकास्त्वित्यर्थः ।
  
  
  
   यद्वा तत्त्वानोंनां मुख्यं आद्यम् । 'आद्ययं आदिभवे मुख्ये' इति भास्करः ।
  
  
  
परम परमं निरतिशयं यत्पदं वस्तु तदित्यर्थ:थः । 'पदं व्यवसितत्राणस्थानलक्ष्मांत्माङ्घ्रि-
  
  
  
*1,
  
  
  
   
  
  
  
[^१] सौन्दर्यलहरी (छोश्लो - 7७)।
  
  
  
   
  
  
  
   ।
तुरीयाश्वासः
'अतीतत्रैगुण्यामशरणशरण्यां भगवतीं
अहं तामालम्बे दृढतरमहन्तां पशुपतेः ।
तदाद्यं तत्त्वानामजरमपरिच्छेद्यमपरं
पराभूतद्वैतं परमपदमाविर्भवतु मे ॥ १६ ॥'
२८३
[commentary]
मायेति कर्मधारये 'आन्मह
जं
'
'
ष्यञ् प्रत्ययः ।
त्स्
परम
*1,
[^१] सौन्दर्यलहरी (