This page has not been fully proofread.

अपि च ।
 
तुरीयाश्वासः
 
अतीतत्रैगुण्यामशरणशरण्यां भगवतीं
अहं तामालम्बे दृढतरमहन्तां पशुपतेः ।
तदाद्यं तत्त्वानामजरमपरिच्छेद्यमपरं
पराभूतद्वैतं परमपदमाविर्भवतु मे ॥ १६ ॥'
 
२८३
 
मायेति कर्मधारये 'आन्महत: ' ( 6-3-46) इत्यादिना महत आकारः। तस्यास्सम्बुद्धिः ।
'स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः' इत्यमरः । तस्या जगन्मोहत्वा-
च्छाम्बरीवन्मायात्वमिति भावः । हे महेश्वरि जगन्नियन्त्रीत्यर्थ: । हे जगदूपिणि
जंगत्स्वरूपे । प्रकृतिकार्यत्वादिति भावः । हे परदेवते त्वत्तव सौभाग्यं माहात्म्यं
तदेव महाविभूति: तस्य वा महाविभूतिस्सम्पत् । 'भूतिर्भस्मनि सम्पदि
'इत्यमरः । तस्याः कणिका लेशः तस्याः यो लेशः तस्य लेशायते लेशवदाचरति
'इत्यर्थः ॥ अतीतेति ॥ त्रिगुणा एव लैगुण्यम् । चतुर्वर्णादित्वात् स्वार्थे
ष्यञ् प्रत्ययः । त्रैगुण्यमतिकान्ता अतीतत्रैगुण्या । यतः स्वयमेव त्रिगुणात्मिका
ततः 'स्वातिरिक्त सत्त्वरजस्तमोगुणत्रयरहितेत्यर्थः । तथाभूतां अविद्यमानं शरणं
रक्षको येषा ते अशरणा: अस्मदादयः तेषां शरण्यां रक्षणधुरीणामित्यर्थः ।
'शरणं गृहरक्षित्रो:' इत्यमरः । भगवतीं माहात्म्यवतीम् । 'भग: श्रीकाममाहा -
त्स्यवीययलार्ककीर्तिषु' इत्यमरः । पशुपतेः परमेश्वरस्य अहमो भावः अहन्ता,
अहङ्काररूपिणीत्यर्थः । तदुक्तं 'पुरमथितुराहो पुरुषिका ' " इति । तथाभूतां तां
परदेवतां अहं अतिशयेन दृढं दृढतरम् । 'गाढबाढहढानि च' इत्यमरः ।
आलम्बे घ्यायामीति तात्पर्यार्थः । अविद्यमाना जरा यस्य तदजरं देशकाल -
वस्तुभिः परिच्छेत्तुं अनर्हमपरिच्छेद्यं अप्रमेयमित्यर्थः । अमलं निर्मलं पराभूतं
तिरस्कृत द्वैतं येन तत्तथाभूतम् । तत्त्वानां पञ्चविंशतिसङ्ख्याकानां आद्यं
प्राथमिकं तत्तत्त्वमित्यर्थः । मे मम आविर्भवतु स्फुरतु । चकास्त्वित्यर्थः ।
यद्वा तत्त्वानों मुख्यं आद्यम् । 'आद्य आदिभवे मुख्ये' इति भास्करः ।
परम निरतिशयं यत्पदं वस्तु तदित्यर्थ: । 'पदं व्यवसितत्राणस्थानलक्ष्मांत्रि-
*1, सौन्दर्यलहरी (छो- 7)।