2023-08-18 12:35:22 by Bharadwajraki
This page has been fully proofread twice.
तद्यस्यास्साहचर्यात्परिणामति परब्रह्मणि श्रीमहेशे
तामाद्यामात्मविद्यामहमिति कलयन् सर्वतो निर्वृतोऽस्मि ॥ २४
यल्लक्ष्मीदयितोऽस्मि यद्दनुभुवां जेतास्मि यत्कर्मिणां
कर्मस्वभ्युदयप्रदोऽस्मि यदपि ध्येयोऽस्मि वा योगिनाम् ।
तत्सर्वं त्रिपुरे महेश्वरि महामाये जगद्रूपिणि
त्वत्सौभाग्यमहाविभूतिकणिकालेशस्य लेशायते ॥ १५ ॥
[commentary]
सादिकर्मकम्' इत्यमरः । यद्वर्तते जगदुत्पत्तिस्थितिलयरूपकार्यM करोमीति भावः । सर्वेषामन्तरः अन्तरात्मा । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । तस्य भावस्तत्त्वं यद्वर्तते इहाद्यं श्रुतिषु वेदेषु निगदितमभिहितं मोक्षे मुक्तिदानविषये यत् स्वातन्त्र्यं अपावृतत्वम् । 'स्वतन्त्रोऽपावृतः स्वैरी' इत्यमरः । साम्राज्यस्य मण्डलेश्वरत्वस्य, सम्यगितरापेक्षामन्तरा राजते प्रकाशत इति सम्राट् तस्य भावस्साम्राज्यं स्वप्रकाशत्वं तस्येति वाऽर्थः । चिह्नं लक्षणं यद्वर्तते । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । तत्सर्वं परब्रह्मणि श्रीपरमेशे परशिवे यस्याः परदेवतायास्साहचर्यात्सान्निध्यात् परिणमति घटत इत्यर्थः । तथोक्तमाचार्यैः [^१]'शिवश्शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम् न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि' इति । आद्यामादिभवाम्। 'आद्यं आदिभवे मुख्ये भक्ष्ये चापि त्रिलिङ्गके' इत्यमरसारः । आत्मविद्यां ब्रह्मविद्यारूपिणीम् । तदुक्तं देवीमाहात्म्ये[^२] 'या देवी सर्वभूतेषु विद्यारूपेण संस्थिता' इति । तां परदेवतां अहमिति कलयन् अभेदेन ध्यायन्नित्यर्थः । सर्वतः सर्वप्रकारैः निर्वृतः सुखितः अस्मि भवामि ॥ यदिति ॥ अहं लक्ष्म्या रमायाः दयितः प्रियोऽस्मीति यत्, दनुभुवां दानवानां जेता जयकर्ता अस्मीति यत्, कर्मिणां कर्मठानां कर्मसु सन्ध्यावन्दनादिषु सहस्रवर्षसत्रान्तेषु कर्मसु अभ्युदयः चित्तशुद्ध्यादिश्रयः तस्य प्रदः प्रदातास्मीति योगिनां वा ध्येयः ध्यातव्यः अस्मीति यदपि, तत्सर्वं हे मातः जननि त्रिभ्यः पुरा त्रिपुरा ब्रह्मादीनामुपाधित्वेन पूर्वं वर्तमाना इति भावः । तस्यास्सम्बुद्धिः । महती च सा
[^१] सौन्दर्यलहरी (श्लो. - १) ।
[^२] (५-२०)

[^१] सौन्दर्यलहरी (श्लो
[^२] (५-२०)