This page has not been fully proofread.

नोलकण्ठविजये संव्याख्याने
 
तद्यस्यास्साहचर्यात्परिणामति
 
परब्रह्मणि श्रीमहेशे
 
तीमाद्यामात्म विद्यामहमिति कलंयन् सर्वतो निर्वृतोऽस्मि ॥ २४
 
7
 
यलक्ष्मीद यतोऽस्मि यदनुभुवां जेतास्मि यत्कर्मिणां
कर्मस्वभ्युदयप्रदोऽस्मि यदपि ध्येयोऽस्मि वा योगिनाम् ।
तत्सर्वं त्रिपुरे महेश्वरि महामाये जमद्भूपिणि
त्वत्सौभाग्यमहाविभूतिकणिकालेशस्य लेशायते ॥ १५ ॥
 
3
 
i+
 
सादिकर्मकम् इत्यमरः । यद्वर्तते जगदुत्पत्तिस्थितिलयरूप कार्य करोमीति
भावः । सर्वेषामन्तरः अन्तरात्मा । 'अन्तरमवकाशावधिपरिघानान्तर्षिभेदतादर्थ्ये ।
छिंद्रात्मीयविनाबहिरंवसरमध्येऽन्तरात्मनि च' इत्यमरः । तस्य भावस्तत्त्वं यद्वर्तते
इहाद्यं श्रुतिषु वेदेषु निगदितमभिहित मोक्षे मुक्तिदानविषये यत् स्वातन्त्र्यं
अपावृतत्वम् । 'स्वतन्त्रोऽपावृतः स्वैरी' इत्यमरः । साम्राज्यस्य मण्डलेश्वरत्वस्य,
सम्यगितरापेक्षामन्तरी राजते प्रकाशत इति सम्राट् तस्य भावसाम्राज्य
स्वप्रकाशत्वं तस्येति वाऽर्थः । चिह्नं लक्षणं यद्वर्तते । 'चिह्नं लक्ष्म च लक्षणम्'
इत्यमरः। तत्सर्वं परब्रह्मणि श्रीपरमेशे परशिवे यस्याः परदेवतायास्साहचर्यात्
सान्निध्यात् परिणमति घटत इत्यर्थः । तथोक्तमाचार्यैः "शिवश्शक्तथा युक्तो
यदि भवति शक्तः प्रभवितुम्' न चेदेव देवो न खलु कुर्शल: स्पन्दितुमपि' इति ।
आद्यामादिभवाम्'। 'आद्यं आदिभवे मुख्ये भक्ष्ये चापि त्रिलिङ्गकें' इत्यमरसारः ।
आत्मविद्या ब्रह्मविद्यारूपिणीम् । तदुक्तं देवीमाहात्म्य' 'या देवी सर्वभूतेषु विद्या-
रूपेण संस्थिता' इति । तो परदेवता अहमिति कलयन् अभेदेन घ्यायन्नित्यर्थः ।
सर्वतः सर्वप्रकारैः 'निर्वृतः सुखितः अस्मि भवामि ॥ यदिति ॥ अहं लक्ष्म्या
रमायाः 'दयितः 'प्रियोऽस्मीति यत्, दनुभुवा दानवानां जेता जयकर्ता अस्मीति
यत्, कर्मिणां कर्मठानां कर्मेसु सन्ध्यावन्दनादिषु सहस्रवर्षसत्रान्तेषु कर्मसु
अभ्युदयः 'चित्तशुद्ध्यादिश्रयः तस्य प्रदः प्रदातास्मीति योगिनां वा ध्येयः 'घ्या-
तव्ये॑ः 'अस्मीति यदपि, तत्सव हे मातः "जननि त्रिभ्यः पुरा त्रिपुरा ब्रह्मादी-
नार्मुपाधित्वेन' पूर्व वर्तमाना' इति भावः । तस्याससम्बुद्धिः । महती च सा
 
7
 
4
 
7)
 
-11 सौन्दर्यलहरी (+1)

 
2. (5-20)1,