2023-08-18 12:12:10 by Bharadwajraki
This page has been fully proofread twice.
अथ स्वस्थो यथापुरमम्बुजेक्षणस्तावतापि संरम्भेण तनुमात्रत्राणपर्यवसन्नेन निराशो हालाहलनिग्रहे, निश्चिन्वन्ननितरसाध्यसाधनधौरन्धर्यमन्तकान्तकस्य भाग इति, निर्धारयन्नान्तरेण परदेवताप्रसादमलभ्यतां शिवसाक्षात्कारस्य, चिन्तयन्नपि चिच्छक्तिविभूतिरूपतामात्मनः परमेण समाधिना समाराध्य नारायणीमित्थमस्तावीत् ।
'यज्जन्मस्थेमभङ्गव्रतमिह जगतां यच्च सर्वान्तरत्वं
यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम् ।
[commentary]
॥ अथेति ॥ यथापुरं पुरेव स्वस्थः सुखितमानसः । 'स्वस्थस्सुखितमानसः' इत्यजयः । अम्बुजेक्षणः श्रीहरिः तनुमात्रं स्वशरीरमात्रं तस्य त्राणं रक्षणम् । 'स्त्रियां मूर्तिस्तनुस्तनूः' । 'त्राणे रक्षितमवितं गोपायितं गुप्तम्’ इति चामरः । तस्मिन् पर्यवसन्नं उपक्षीणं तथाभूतेन तावता तथाविधेन संरम्भेण प्रयत्नेनापि हालाहलः कालकूटः तस्य निग्रहे निवारणविषये निराशः स्पृहारहितस्सन् इतरैस्साधयितुं न योग्यं अनितरसाध्यं इतरैः कर्तुमशक्यं कार्यमित्यर्थः । 'त्रिषु साध्यं साधनीयं' इति भास्करः । तस्य साधनं सम्पादनं तस्मिन् धौरन्धर्यं धुरन्धरस्य भावः, धुरीणत्वमिति यावत् । 'धूर्वहे धुर्यधौरेयधुरीणास्स्युर्धुरन्धराः' इत्यमरः । अन्तकान्तकस्य परशिवस्य भागः अंशः । 'भागो भाग्ये रूपकांशे चतुर्थांशैकदेशयोः इति नानार्थमाला । इति इत्थं निश्चिन्वन् निश्चयं कुर्वन्नान्तरेण करणेनेति शेषः । मनसेत्यर्थः । शिवस्य साक्षात्कारः प्रत्यक्षं तस्य परदेवतायाः प्रसादोऽनुग्रहः तल्लभ्यतां तत्प्राप्यतां, निर्धारयन् निर्धारणं कुर्वन् । पाठान्तरे परदेवताप्रसादमन्तरेण विहायेत्यर्थः । शिवसाक्षात्कारस्य अलभ्यतां दौर्लभ्यं निर्धारयन्निति योजना । आत्मनः स्वस्य चिच्छक्तिरूपतां शिवशक्तिरूपत्वं चिन्तयन्विद्वन् परमेण उत्कृष्टेन । 'परमं स्यादनुज्ञानेऽप्यासन्नापरमात्मनि । त्रिषूत्कृष्टे पञ्चमस्तु स्वरेणापूरणे त्रिषु' इति भास्करः । समाधिना ध्यानेन । 'समाधिर्ध्याननीवाकनियमेषु समर्थने' इति च । नारायणीं श्रीगौरीं, 'नारायणी रमागौर्योश्शतावर्यां हरौ तु वा' इति नानार्थमाला । इत्थं वक्ष्यमाणप्रकारेण अस्तावीत्स्तुतिं चकारेत्यर्थः ॥ यदिति ॥ जगतां लोकानां जन्म उत्पत्तिः स्थेम स्थितिः भङ्गः प्रळय इत्यर्थः । एतेषु विषये यद्व्रतं नियमः । 'नियमो व्रतमस्त्री तच्चोपवा-