This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
૨૯૨
 
अथ स्वस्थो यथा पुरमम्बुजेक्षणस्तावतापि संरम्भेण तनुमात्रत्राण-
पर्यवसन्नेन निराशो हालाहल निग्रहे, निश्चिन्वन्ननितरसाध्यसाधनधौर-
न्धर्यमन्तकान्तकस्य भाग इति, निर्धारयन्नान्तरेण परदेवताप्रसाद-
मलभ्यतां शिवसाक्षात्कारस्य, चिन्तयन्नपि चिच्छक्तिविभूतिरूपता-
मात्मनः परमेण समाधिना समाराध्य नारायणीमित्थमस्तावीत् ।
 

 
'यज्जन्मस्थेमभङ्गत्व्रतमिह जगतां यच्च सर्वान्तरत्वं

यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम् ।
 
2
 

 
[commentary]
 
॥ अथेति ॥ यथापुरं पुरेव स्वस्थ:थः सुखितमानसः । 'स्वस्थस्सुखितमानसः '
' इत्यजयः । अम्बुजेक्षण:णः श्रीहरिः तनुमात्रं स्वशरीरमात्रं तस्य त्राणं रक्षणम् ।
'स्त्रियां मूर्तिस्तनुस्तनूः' । 'त्राणे रक्षितमवितं गोपायितं गुप्तम् इति चामरः ।
तस्मिन् पर्यवसन्नं उपक्षीणं तथाभूतेन तावता तथाविधेन सॅसंरम्भेण प्रयत्नेनापि
हालाहल:लः कालकूट:टः तस्य निग्रहे निवारण विषये निराशः स्पृहारहितस्सन् इतरै-
स्साधयितुं न योग्यं अनितरसाध्यं इतरैः कर्तुमशक्यं कार्यमित्यर्थः । 'त्रिषु साध्यं
साघ
साधनीयं' इति भास्करः । तस्य साधनं सम्पादनं तस्मिन् धौरन्धर्यं धुरन्धरस्य
भावः, धुरीणत्वमिति यावत् । 'घूधूर्वहे धुर्यधौरेयधुरीणास्स्युर्धुरन्धराः' इत्यमरः ।
अन्तकान्तकस्य परशिवस्य भाग:गः अंशः । 'भागो भाग्ये रूपकांशे चतुर्थांशैक-
देशयोः इति नानार्थमाला । इति इत्थं निश्चिन्वन् निश्चयं कुर्वन्नान्तरेण करणे-
नेति शेषः । मनसेत्यर्थः । शिवस्य साक्षात्कारः प्रत्यक्षं तस्य परदेवतायाः प्रसादोऽ
नुग्रह: तहः तल्लभ्यतां तत्प्राप्यतां, 'निर्धारयन् निर्धारणं कुर्वन् । पाठान्तरे परदेवता-
प्रसादमन्तरेण विहायेत्यर्थः । शिवसाक्षात्कारस्य अलभ्यतां दौर्लम्पभ्यं निर्धारय-
न्निति योजना ।" आत्मनः स्वस्य चिच्छक्तिरूपतां शिवशक्तिरूपत्वं चिन्तयन्
विद्वन् परमेण उत्कृष्टेन। " । 'परमं स्यादनुज्ञानेऽप्यासन्नापरमात्मनि । त्रिषूत्कृष्टे
 
10
 

 
पञ्चमस्तु स्वरेणापूरणे त्रिषु' इति भास्करः । समाधिना ध्यानेन । 'समाविधिर्ध्यान-
"
 
I
 
नीवाक नियमेषु समर्थने' इति च । नारायणीं श्रीगौरीं, 'नारायणी रमागौर्यो-
श्शतावर्यायां हरौ तु वा' इति नानार्थमाला । इत्थं वक्ष्यमाणप्रकारेण अस्तावीत्
स्तुतिं चकारेत्यर्थः ॥ यदिति ॥ जगतां लोकानां जन्म उत्पत्तिः स्थेम स्थितिः
भङ्गः प्रळय इत्यर्थः । एतेषु विषये यद्व्रतं नियमः । 'नियमो नतमस्त्रींव्रतमस्त्री तच्चोपवा-
N - 36