2023-06-05 16:40:32 by ambuda-bot
This page has not been fully proofread.
तुरीयाश्वासः
૨૯૨
अथ स्वस्थो यथा पुरमम्बुजेक्षणस्तावतापि संरम्भेण तनुमात्रत्राण-
पर्यवसनेन निराशो हालाहल निग्रहे निश्चिन्वन्ननितरसाध्यसाधनधौर-
न्धर्यमन्तकान्तकस्य भाग इति निर्धारयन्नान्तरेण परदेवताप्रसाद-
मलभ्यतां शिवसाक्षात्कारस्य, चिन्तयन्नपि चिच्छक्तिविभूतिरूपता-
मात्मनः परमेण समाधिना समाराध्य नारायणीमित्थमस्तावीत् ।
'यज्जन्मस्थेमभङ्गत्रतमिह जगतां यच्च सर्वान्तरत्वं
यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम् ।
2
॥ अथेति ॥ यथापुरं पुरेव स्वस्थ: सुखितमानसः । 'स्वस्थस्सुखितमानसः '
इत्यजयः । अम्बुजेक्षण: श्रीहरिः तनुमात्र स्वशरीरमात्रं तस्य त्राणं रक्षणम् ।
'स्त्रियां मूर्तिस्तनुस्तनूः' । 'त्राणे रक्षितमवितं गोपायित गुप्तम् इति चामरः ।
तस्मिन् पर्यवसन्न उपक्षीणं तथाभूतेन तावता तथाविधेन सॅरम्भेण प्रयत्नेनापि
हालाहल: कालकूट: तस्य निग्रहे निवारण विषये निराशः स्पृहारहितस्सन् इतरै-
स्साधयितुं न योग्य अनितरसाध्यं इतरैः कर्तुमशक्यं कार्यमित्यर्थः । 'त्रिषु साध्यं
साघनीय' इति भास्करः । तस्य साधनं सम्पादनं तस्मिन् धौरन्धर्य धुरन्धरस्य
भावः, धुरीणत्वमिति यावत् । 'घूर्वहे धुर्यधौरेयधुरीणास्स्युर्धुरन्धराः' इत्यमरः ।
अन्तकान्तकस्य परशिवस्य भाग: अंशः । 'भागो भाग्ये रूपकांशे चतुर्थांशैक-
देशयोः इति नानार्थमाला । इति इत्थं निश्चिन्वन् निश्चयं कुर्वन्नान्तरेण करणे-
नेति शेषः। मनसेत्यर्थः । शिवस्य साक्षात्कारः प्रत्यक्षं तस्य परदेवतायाः प्रसादोऽ
नुग्रह: तलभ्यतां तत्प्राप्यतां, 'निर्धारयन् निर्धारण कुर्वन् । पाठान्तरे परदेवता-
प्रसादमन्तरेण विहायेत्यर्थः । शिवसाक्षात्कारस्य अलभ्यतां दौर्लम्प निर्धारय-
निति योजना ।" आत्मनः स्वस्य चिच्छतिरूपतां शिवशक्तिरूपत्वं चिन्तयन्
विद्वन् परमेण उत्कृष्टेन। "परमं स्यादनुज्ञानेऽप्यासन्नापरमात्मनि । त्रिषूत्कृष्टे
10
▾
पञ्चमस्तु स्वरेणापूरणे त्रिषु' इति भास्करः । समाधिना ध्यानेन । 'समाविर्ध्यान-
"
I
नीवाक नियमेषु समर्थने' इति च । नारायणीं श्रीगौरीं, 'नारायणी रमागौर्यो-
श्शतावर्या हरौ तु वा' इति नानार्थमाला । इत्थं वक्ष्यमाणप्रकारेण अस्तावीत्
स्तुतिं चकारेत्यर्थः ॥ यदिति ॥ जगतां लोकानां जन्म उत्पत्तिः स्थेम स्थितिः
भङ्गः प्रळय इत्यर्थः । एतेषु विषये यवतं नियमः नियमो नतमस्त्रीं तच्चोपवा-
N - 36