2023-08-18 10:05:36 by Bharadwajraki
This page has been fully proofread twice.
तामित्थं स्मरतश्चिरं मधुभिदस्तारां सुधामालिनीं
धूतद्द्वैतकळङ्कशङ्करकलापुम्भावरूपात्मनः ।
पाषाणव्यतिभेदजर्झरजरच्छैवालवत्तत्क्षणात्
आत्किञ्चिदपासरत्परिगतो हालाहलस्सर्वतः ॥ १३ ॥
[commentary]
तथाभूतां भगवतीमम्बां अमृतेश्वरी तारासंज्ञिकां सुधामालिनीं देवीं मुकुन्दः श्रीहरिः अहमिति भावः अभिप्रायः अहम्भावस्तस्मादहम्भावतः । 'भावः पदार्थे सत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु ॥" इति नानाथमाला । अस्मार्षीत् सस्मार। अहममृतेश्वर्यस्मीति दध्याविति भावः ॥ तामिति ॥ सुधायाः माला सुधामाला अस्या अस्तीति सुधामालिनी, स्रवत्सुधेति भावः । तथाभूतां तारां तारादेवीं इत्थमभेदेनेत्यर्थः । चिरं बहुकालं स्मरतः
ध्यायतः । द्वयोर्भावः द्विता सैव द्वैतम् । स्वार्थेऽण्प्रत्ययः । तदेव कळङ्कोऽङ्कं धूतः उत्सृष्टः द्वैतकळङ्को येन सः । स चासौ शङ्करश्चेति कर्मधारयः । 'त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम्' इत्यमरः । 'कळकोऽङ्कापवादयोः' इति च । तथाभूतस्य शङ्करस्य या कला कलना, कृतिरिति यावत् । शक्तिरिति वाऽर्थः । तस्याः । 'कलांशमात्रे शिल्पादौ कलनाकालभेदयोः । इन्दोश्च षोडशे भागे स्यान्मूलधनवर्धने’ इति भास्करः । पुंसा पुंरूपेण, भावः भूतिः, पुरुषरूपेण भवनमिति यावत् । 'विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु । भावस्सत्ता' इत्यादि भास्करः । एवंच शङ्करकलायां यः पुम्भावः तस्मिन् यद्रूपम् आकार इत्यर्थः । 'रूपं स्वभावे शुक्लादौ सौन्दर्ये नायके पशौ । ग्रन्थावृत्तौ नाटकादावाकारे श्लोकशब्दयोः' इति भास्करः । तद्रूपमात्मा विग्रहो यस्य सः । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । तथा चाद्वितीयशङ्करकलास्वरूपपार्वतीविवर्तस्येति भावः । एवम्भूतस्य मुरभिदो वासुदेवस्य, सर्वतः समन्ततः, परिगतः परिप्राप्तः हालाहलः कालकूटः तत्क्षणात् । ल्यब्लोपे पञ्चमी । ध्यानक्षणं विहायेत्यर्थः । पाषाणस्य व्यतिभेदः आघातः तेन जर्झरः खण्डितः यो जरत् निस्सारं यच्छैवालं शैवलं तद्वत् । 'जलनीली तु शैवालशैवलेऽथ कुमुद्वती' इत्यमरः । आरात्समीपे किञ्चिदल्पमपासरदपगतः सुधामालिनीध्यानेन किञ्चिद्विषबाधा स्वस्य गतेति भावः ।