This page has been fully proofread once and needs a second look.

तामित्थं स्मरतश्चिरं मधुभिदस्तारां सुधामालिनीं
धूतद्द्वैतकळङ्कशङ्करकलापुम्भावरूपात्मनः ।
पाषाणव्यतिभेदजर्झरजरच्छैवालवत्तत्क्षणात्
आत्किञ्चिदपासरत्परिगतो हालाहलस्सर्वतः ॥ १३ ॥
 
[commentary]
 
तथाभूतां भगवतीमम्बां अमृतेश्वरी तारासंज्ञिकां सुधामालिनीं देवीं मुकुन्दः श्रीहरिः अहमिति भावः अभिप्रायः अहम्भावस्तस्मादहम्भावतः । 'भावः पदार्थे सत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु ॥" इति नानाथमाला । अस्मार्षीत् सस्मार। अहममृतेश्वर्यस्मीति दध्याविति भावः ॥
तामिति ॥ सुत्राधायाः मालीला सुधामाला अस्या 'अस्तीति सुधामालिनी, स्रवत्सुघेति
धेति भावः । तथाभूतीतां तारारां तारादेवीवीं इत्थममेभेदेनेत्यर्थः । चिरं बहुकालं स्मरतः
घ्ध्यायतः । द्वयोर्भावः द्विता सैव द्वैतम् । स्वार्थेऽण्प्रत्ययः । तदेव कळङ्कोऽङ्कं धूतः
उत्सृष्टः द्वैतकळङ्को येन सः । स चासौ शङ्करश्चेति कर्मधारयः । 'त्यकंक्तं हीनं
विधुतं समुज्झितं धूतमुत्सृष्टम्' इत्यमरः । 'कळकोऽङ्कापवादयोः' इति च । तथा-
भूतस्य शङ्करस्य या कला कलना, कृतिरिति यावत् । शक्तिरिति वाऽर्थः । तस्याः ।
'कला
'कलांशमात्रे शिल्पादौ कलना काल भेदयोः । इन्दोश्च षोडशे भागे स्यान्मूलधनवर्धने
इति भास्करः । पुंसा पुरुपुंरूपेण, भावः भूतिः, पुरुषरूपेण भवनमिति यावत् ।
'विद्वल्लीला स्वभावेषु भूत्यभिप्रायजन्तुषु । भावस्सत्ता' इत्यादि भास्करः । एवंच
शङ्करकलायां यः पुम्भावः तस्मिन् यदूद्रूपम् आकार इत्यर्थः । 'रूपं स्वभावे शुक्का लादौ
सौन्दर्ये नायके पशौ । ग्रन्थावृत्तौ नाटकादावाकारे श्लोकशब्दयोः' इति
भास्करः । तद्रूपमात्मा विग्रहो यस्य सः । 'आला "त्मा यत्नो धृतिर्बुद्धिः स्वभावो
ब्रह्म वर्ष्म च' इत्यमरः । तथा चाद्वितीय शङ्करकलास्वरूपपार्वतीविवर्तस्येति भावः ।
एवम्भूतस्य मुरभिदो वासुदेवस्य, सर्वतः समन्ततः, परिगतः परिप्राप्तः हालाहल:
लः कालकूट:टः तत्क्षणात्। 'ल्यब्लोपे पञ्चमी । ध्यानक्षणं विहायेत्यर्थः । पाषाणस्य
व्यतिभेदः आघातः तेन जीजर्झरः खण्डितः यो जरत् निस्सारं यच्छेछैवालं शैवलं तद्वत् ।
'जलनीली तु शैवालशेशैवलेऽथ कुमुद्ती' इत्यमरः । समीपे किञ्चिदरंल्पम-
पासरदपगतः सुघाधामालिनीध्यानेन किञ्चिद्विषबाधा स्वस्य गतेति भावः ।
 
4