2023-08-18 09:50:08 by Bharadwajraki
This page has been fully proofread twice.
उत्सर्पन्तं समन्तादपि परिकलयन्नुद्भटं कालकूटं
कालात्मा पद्मनाभो मनसि विनिदधे कालसङ्घर्षयोगम् ॥ ११ ॥
सिञ्चन्तीं परमामृतानि दिशि दिश्यप्राकृतैरंशुभिः
खेलन्तीममृतार्णवे मणिमयीमारुह्य नौकां नवाम् ।
स्त्रिग्धापाङ्गतरङ्गशिक्षितभवक्ष्वेळां मुकुन्दश्चिरात्
अस्माषींर्षीदमृतेश्वरीं भगवतीमम्बामहम्भावतः ॥ १२ ॥
[commenatry]
इत्यमरः । पद्मनाभः श्रीहरिः वैजयन्त्यां वनमालायां म्लायन्त्यां म्लानतां प्राप्तायां सत्याम् । धूमजालैः कनकपटे धूसरे मलिने सति चक्रे सुदर्शने निष्क्रान्तं ज्वालानां चक्रं समूहो यस्मात् तत् । 'निरादयः कान्ताद्यर्थे पञ्चम्या’ इति समासः । शङ्खे पाञ्चजन्ये परिणतः प्राप्तः यः स्फोटः विदळनं तस्माच्छङ्का भीतिर्यस्येति व्यधिकरणबहुव्रीहिः । अथवा परिणता स्फोटशङ्का यस्य स तथाभूते सति समन्तात्परितः उत्सर्पन्तं प्रसरन्तं कालकूटं उद्भटं दुस्सहं परिकलयन्विजानन् मनसि चित्ते सपदि तदानीं कालात् सङ्घर्षः पराभवः तस्य योगं सम्बन्धं विनिदधे विवेदेति तात्पर्यार्थः । तदुक्तं देवीभागवते -- 'ज्वालया तस्य सर्वेऽपि मूर्च्छामापुरसुरा नृप । दैत्या निश्चेतना जाता विष्णुः कृष्णस्तदाभवत् ॥ पीताम्बरं धूसरं तच्चक्रं निर्ज्वालचक्रकम् । स शङ्खः स्फोटशङ्खोऽभूत्तस्य देवस्य शार्ङ्गिणः ॥ मन्दगर्वस्स गोविन्दः ज्वालाव्याप्ततनुर्भृशम् । चिन्तयन् तत्प्रतीकारं हृदि सस्मार शङ्करम्' इति ॥ सिञ्चन्तीमिति ॥ दिशि दिशि प्रतिदिशम् । वीप्सायां द्विर्भावः । प्रकृतेः कारणादागताः प्राकृताः सहेतुका इत्यर्थः । न प्राकृता अप्राकृताः तैः निर्हेतुकैरिति यावत् । आभरणाद्युपाध्यप्रयोजकत्वादिति भावः । अंशुभिः दीप्तिभिः, परमामृतानि सिञ्चन्तीं सेकं कुर्वन्तीं किरन्तीमिति तात्पर्यार्थः । मणिमयीं मणिभिः प्रचुरामित्यर्थः । प्राचुर्यार्थे मयट् । 'टिड्ढाणञ्--' (४.१.१५) इत्यादिना ङीप् । नवां नूतनां नौरेव नौका तरिः ताम् । 'नवीनो नूतनो नवः' 'स्त्रियां नौस्तरणिस्तरिः' इति च अमरः । आरुह्य आरूढा भूत्वेत्यर्थः । अमृतार्णवे खेलन्तीं क्रीडन्तीमित्यर्थः । स्निग्धाः मसृणा ये अपाङ्गाः कटाक्षाः तैरिशश्शिक्षितः भवः विद्यमानः क्ष्वेळः गरळं यस्याः सा अपाङ्गमात्रेण विद्यमानकालकूटघ्नीत्यर्थः । 'क्ष्वेळस्तु गरळं विषम्' इत्यमरः ।
कालात्मा पद्मनाभो मनसि विनिदधे कालसङ्घर्षयोगम् ॥ ११ ॥
सिञ्चन्तीं परमामृतानि दिशि दिश्यप्राकृतैरंशुभिः
खेलन्तीममृतार्णवे मणिमयीमारुह्य नौकां नवाम् ।
स्त्रिग्धापाङ्गतरङ्गशिक्षितभवक्ष्वेळां मुकुन्दश्चिरात्
अस्मा
[commenatry]
इत्यमरः । पद्मनाभः श्रीहरिः वैजयन्त्यां वनमालायां म्लायन्त्यां म्लानतां प्राप्तायां सत्याम् । धूमजालैः कनकपटे धूसरे मलिने सति चक्रे सुदर्शने निष्क्रान्तं ज्वालानां चक्रं समूहो यस्मात् तत् । 'निरादयः कान्ताद्यर्थे पञ्चम्या’ इति समासः । शङ्खे पाञ्चजन्ये परिणतः प्राप्तः यः स्फोटः विदळनं तस्माच्छङ्का भीतिर्यस्येति व्यधिकरणबहुव्रीहिः । अथवा परिणता स्फोटशङ्का यस्य स तथाभूते सति समन्तात्परितः उत्सर्पन्तं प्रसरन्तं कालकूटं उद्भटं दुस्सहं परिकलयन्विजानन् मनसि चित्ते सपदि तदानीं कालात् सङ्घर्षः पराभवः तस्य योगं सम्बन्धं विनिदधे विवेदेति तात्पर्यार्थः । तदुक्तं देवीभागवते -- 'ज्वालया तस्य सर्वेऽपि मूर्च्छामापुरसुरा नृप । दैत्या निश्चेतना जाता विष्णुः कृष्णस्तदाभवत् ॥ पीताम्बरं धूसरं तच्चक्रं निर्ज्वालचक्रकम् । स शङ्खः स्फोटशङ्खोऽभूत्तस्य देवस्य शार्ङ्गिणः ॥ मन्दगर्वस्स गोविन्दः ज्वालाव्याप्ततनुर्भृशम् । चिन्तयन् तत्प्रतीकारं हृदि सस्मार शङ्करम्' इति ॥ सिञ्चन्तीमिति ॥ दिशि दिशि प्रतिदिशम् । वीप्सायां द्विर्भावः । प्रकृतेः कारणादागताः प्राकृताः सहेतुका इत्यर्थः । न प्राकृता अप्राकृताः तैः निर्हेतुकैरिति यावत् । आभरणाद्युपाध्यप्रयोजकत्वादिति भावः । अंशुभिः दीप्तिभिः, परमामृतानि सिञ्चन्तीं सेकं कुर्वन्तीं किरन्तीमिति तात्पर्यार्थः । मणिमयीं मणिभिः प्रचुरामित्यर्थः । प्राचुर्यार्थे मयट् । 'टिड्ढाणञ्--' (४.१.१५) इत्यादिना ङीप् । नवां नूतनां नौरेव नौका तरिः ताम् । 'नवीनो नूतनो नवः' 'स्त्रियां नौस्तरणिस्तरिः' इति च अमरः । आरुह्य आरूढा भूत्वेत्यर्थः । अमृतार्णवे खेलन्तीं क्रीडन्तीमित्यर्थः । स्निग्धाः मसृणा ये अपाङ्गाः कटाक्षाः तै