This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
उत्सर्पन्तं समन्तादपि परिकलयन्नुद्भटं कालकूटं
 

कालात्मा पद्मनाभो मनसि विनिदधे कालसङ्घर्षयोगम् ॥ ११

 
सिञ्चन्तीं परमामृतानि दिशि दिश्यप्राकृतैरंशुभिः
·

खेलन्तीममृतार्णवे मणिमयीमारुह्य नौकां नवाम् ।

स्त्रिग्धापाङ्गतरङ्ग शिक्षितभवक्ष्वेळां मुकुन्दश्चिरात्
 

अस्माषींदमृतेश्वरीरीं भगवतीमम्बामहम्भावतः ॥ १२ ॥
 
1
 

 
[commenatry]
 
इत्यमरः । पद्मनाभः श्रीहरिः वैजयन्त्यां वनमालायां म्लायन्त्यां म्लानतां प्राप्तायां
सत्याम् । धूमजालैः कनकपटे धूसरे मलिने सति चक्रे सुदर्शने निष्काक्रान्तं
ज्वालानां चक्रं समूहो यस्मात् तत् । 'निरादयः कान्ताद्यर्थे पञ्चम्या इति
समासः । शङ्खे पाञ्चजन्ये परिणतः प्राप्तः यः स्फोट:टः विदळनं तस्माच्छक्ङ्का
भीतिर्यस्येति व्यधिकरणबहुव्रीहिः । अथवा परिणता स्फोटशङ्का यस्य स तथा भूते
सति समन्तात्परितः उत्सर्पन्तं प्रसरन्तं कालकूटं उद्भटं दुस्सहं परिकलयन्
विज्ञाजानन् मनसि चित्ते सपदि तदानीं कालात् सङ्घर्ष:षः पराभवः तस्य योगं
सम्बन्धं विनिदधे विवेदेति तात्पर्यार्थः । तदुक्तं देवीभागवते -- 'ज्वालया
तस्य सर्वेऽपि मूर्च्छामापुरसुरा नृप । दैत्या निश्चेतना जाता विष्णुः कृष्ण-
स्तदाभवत् ॥ पीताम्बरं घुधूसरं तच्चक्रं निर्जाज्वालचक्रकम् । स शङ्खः स्फोट-
शङ्खोऽभूत्तस्य देवस्य शार्ङ्गिणः ॥ मन्दगर्वस्स गोविन्द:दः ज्वालाव्याप्ततनुर्भृशम् ।
चिन्तयन् तत्प्रतीकारं हृदि सस्मार शङ्करम्' इति ॥ सिञ्चन्तीमिति ॥ दिशि
दिशि प्रतिदिशम् । वीप्सायां द्विर्भावः । प्रकृतेः कारणादागताः प्राकृताः
सहेतुका इत्यर्थः । न प्राकृता अप्राकृताः तैंतैः निर्हेतुकैरिति यावत् । आभरणा-
द्युपाध्यप्रयोजकत्वादिति भावः । अंशुभि:भिः दीप्तिभिः, परमामृतानि सिञ्चन्तीं सेकं
कुर्वन्तीं किरन्तीमिति तात्पर्यार्थः । मणिमयीं मणिभिः प्रचुरामित्यर्थः ।
प्राचुर्यार्थे मयट् । 'टिड्ढाणञ्--' (41-15४.१.१५) इत्यादिना डीङीप् । नवां नूतनां नौरेव
नौका तरि:रिः ताम् । 'नवीनो नूतनो नवः' 'स्त्रियां नौस्तरणिस्तरिः' इति च अमरः ।
आरुह्य आरूढा भूत्वेत्यर्थः । अमृतार्णवे खेलन्तीं क्रीडन्तीमित्यर्थः । स्निग्धाः
मसृणा ये अपाङ्गाः कटाक्षाः तैरिशक्षितः भवः विद्यमानः क्ष्वेळः गरळं यस्याः
सा अपाङ्गमात्रेण विद्यमानकालकूटघ्नीत्यर्थः । 'क्ष्वेळस्तु गरळं विषम्' इत्यमरः ।
 
मसृणा
 
ये
 
२७५