2023-08-18 09:39:07 by Bharadwajraki
This page has been fully proofread twice.
दारुणः, कल्पानलदग्धजगदण्डपिण्डीकरणप्रसक्तकालचण्डीकरक्षालनोदकामिव क्षीरोदमाकलयन्, प्रथमनिःसृतपवनपरिस्पन्दमात्रनिश्शेषितेषु भुवनेषु, दग्धव्यानुपलम्भसम्भवक्षुधाप्रसारितरसनासहस्रभीषणेन ज्वालाकलापेन लेलिहान इव वैरिञ्चमपि प्रपञ्चम्, अवसादितभुवनकोलाहलो हालाहलो निर्गत्य, वारण इव वारणमभिदुद्राव रमारमणम् ।
तत्क्षणं च परुषविषानलज्वालापरिप्लोषप्रतीकारमन्त्राक्षराङ्गाररूषितानीव वदनानि चतुर्वदनस्य दधिरे दन्ततालुरसनाधरे मालिन्यम् ।
म्लायन्त्यां वैजयन्त्यामथ कनकपटे धूसरे धूमजालैः
चक्रे निर्ज्वालचक्रे सपदि परिणतस्फोटशङ्के च शङ्खे ।
[commentary]
कम्पनेन, सम्भावितस्सम्पादितः, यः प्रत्यवायो दुरितं, स इव परमदारुणो, अत्यन्तभयङ्करः क्षीरोदं क्षीरनिधिं कल्पानलदग्धस्य जगदण्डस्य पिण्डीकरणे प्रसक्ता उद्युक्ता या कालचण्डी तस्याः करक्षाळनोदकमिव आकलयन् कुर्वन्भुवनेषु लोकेषु, प्रथमं निःसृतो निर्गतः, यः पवनः तस्य परिस्पन्दमात्रेण किञ्चिच्चलनेनैव निश्शेषितेषु निरवशेषितेषु सत्सु दग्धव्यो दाह्यपदार्थः तस्यानुपलम्भः अप्राप्तिः । अलाभ इति यावत् । तस्मात् सम्भवा समुत्पन्ना या क्षुधा क्षुत् तया प्रसारिता या रसनाः जिह्वाः तासां सहस्रवद्भीषणं भयङ्करं तथाभूतेन ज्वालानां कलापस्समूहः तेन वैरिञ्चं विरिञ्चिसम्बन्धिनं प्रपञ्चं लोकं लेलिहानः लेहनं कुर्वन्निव । अवसादितः, विनाशितः भुवनानां
कोलाहलः कलकलरवः येन स तथाभूतः । हालाहलः कालकूटः, वारणं गजं वारण इव । 'मतङ्गजो गजो नागः कुञ्जरो वारणः करी' इत्यमरः । रमारमणं श्रीहरिं अभिदुद्राव अनुधावनं चकारेत्यर्थः ॥ तदिति ॥ तत्क्षणं परुषः दुस्सहः यो विषानलः तस्य ज्वालाभिः यः परिप्लोष म्लानत्वं तस्य प्रतीकारः चिकित्सनं तदर्थाः ये मन्त्राः । 'नर्य प्रजां मे गोपाय' इत्यादयो मन्त्राः तेषामक्षरैर्वर्णैरेवाङ्गारैः रूषितानि व्याप्तानीव चतुर्वदनस्य ब्रह्मणः वदनानि दन्ततालुरसनाधरे मालिन्यं मलिनता । प्राण्यङ्गत्वात् 'द्वन्द्वश्च प्राणि--' (२.४.२) इत्यादिना एकवद्भावः । दधिरे दधुरित्यर्थः ॥ म्लायन्त्यामिति ॥ अथ कालस्तत्कालः तस्मिन्नात्मा धैर्यं यस्य सः कालात्मा । यद्वा कालस्वरूप इत्यर्थः । 'आत्मा यत्नो धृतिर्बुद्धिः'