This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
दारुणः, कल्पानलदग्धजगदण्डपिण्डीकरणप्रसक्तकालचण्डीकरक्षालनोद-
कामिक क्षीरोदमाकलयन, प्रथमनिःसृतपवनपरिस्पन्दमात्रनिश्शेषितेषु
भुवनेषु, दुग्धव्यानुपलम्भसम्भवक्षुधाप्रसारितर सनासहस्रभीषणेन ज्वाला-
कलापेन लेलिहान इव वैरिश्चमपि प्रपञ्चम् अवसादितभुवनकोलाहलो
हालाहलो निर्गत्य, वारण इव वारणमभिदुद्राव रमारमणम् ।
 
2
 
तत्क्षणं च परुषविषानेलज्वालापरिप्लोषप्रतीका रमन्त्राक्षराङ्गाररूषि-
तानीव वदनानि चतुर्वेदनस्य दधिरे दन्ततालुरसनाधरे मालिन्यम् ।
म्लायन्त्यां वैजयन्त्यामथ कनकपटे धूसरे धूमजालैः
 
चक्रे निर्वालचक्रे सपदि परिणतस्फोटश च शङ्खे ।
 
F
 
कम्पनेन, सम्भावितस्सम्पादितः, यः प्रत्यवायो दुरितं, स इव परमदारुणो,
अत्यन्तभयङ्करः क्षीरोदं क्षीरनिधि कल्पानलदग्धस्य जगदण्डस्य पिण्डीकरणे
प्रसक्ता उद्युक्ता या कालचण्डी तस्याः करक्षाळनोद कमिव आकलयन् कुर्वन्
भुवनेषु लोकेषु, प्रथम निःसृतो निर्गतः, यः पवनः तस्य परिस्पन्दमात्रेण
किञ्चिच्चलनेनैव निश्शेषितेषु निरवशेषितेषु सत्सु दग्धव्यो दाह्यपदार्थः
तस्यानुपलम्भः अप्राप्तिः । अलाभ इति यावत् । तस्मात् सम्भवा समुत्पन्ना
या क्षुषा क्षुत् तथा प्रसारिता या रसना: जिह्वा तासां सहस्रवद्रीषणं भयङ्करं
तथाभूतेन ज्वालानां कलापस्समूह : तेन वैरिञ्चं विरिञ्चिसम्बन्धिनं प्रपञ्च
लोकं लेलिहान; लेहन - कुर्वन्निव । अवसादितः, विनाशितः भुवनानां
कोलाहल: कलकलरक: येन स तथाभूतः । हालाहल: कालकूटः, वारणं गजं
वारण इव । 'मतङ्ग जो गजो नागः कुञ्जरो वारण: करी' इत्यमरः । रमारमणं
श्रीहरि अभिदुद्राव अनुधावनं चकारेत्यर्थः ॥ तदिति ॥ तत्क्षणं परुष: दुस्सह
यो विषानल: तस्य ज्वालाभिः यः परिप्लोष म्लानत्वं तस्य प्रतीकारः चिकित्सनं
तदर्था: ये मन्त्रा: । 'नय प्रजां मे गोपाय' इत्यादयो मन्त्राः तेषामक्षरैर्वर्णैरे-
वाङ्गारैः रूषितानि व्याप्तानीव चतुर्वदनस्य ब्रह्मणः वदनानि दन्ततालुरसनाघरे
मालिन्यं मलिनता । प्राण्यङ्गत्वात् 'द्वन्द्वश्च प्राणि-' (2-4-2) इत्यादिना एकवद्भावः ।
दधिरे धुरित्यर्थः ॥ म्लायन्त्यामिति ॥ अथ कालस्तत्कालः तस्मिन्नात्मा
धैर्यं यस्य स; कालात्मा 1 यद्वा कालस्वरूप इत्यर्थ: । 'आत्मा यलो धृतिर्बुद्धिः '