2023-08-18 09:27:26 by Bharadwajraki
This page has been fully proofread twice.
नेदं सृष्टं सकृदपि मया नोपदिष्टं त्वया वा
किं व्याहारैर्मम च किमपि क्षुभ्यतीवान्तरात्मा ॥’ १० ॥
इत्यभिदधान एव विधौ, अशङ्कितोपनतरसातलातङ्कसङ्घटितसमाधिक्षोभकोपदुर्दर्शकालरुद्र- समुन्निद्रितफालनेत्रसमुत्थित इव महाप्रळयपावकः, प्रतिसर्गनिर्गळदनर्गळशेषविषनिःश्वासधूमसमाश्लेषजनितविषमषीपिण्ड इव मथनसंक्षोभचलितबडबानलसंवळितः, सुन्दरतरमन्दरगिरिकन्दरशयस्वायम्भवशाम्भवलिङ्गचलन- सम्भावितप्रत्यवाय इव परम-
[commentary]
विषाणां सर्पाणाम् । 'आशीविषो विषधरः' इत्यमरः । हानिः नाशः नास्ति, तस्य तन्मुखत्वादिति भावः । इदं सकृदेकवारमपि मया न सृष्टं त्वया वा नोपदिष्टं न प्रोक्तं व्याहारैरुक्तिभिः किम् । 'व्याहार उक्तिर्लपितम्' इत्यमरः । मम चान्तरात्मा मनः किमपि किं वा क्षुभ्यति बिभेतीत्यर्थः । 'क्षुभ सञ्चलने
भये च’ इति धातोर्लट् । जायमाने पदार्थे विलक्षणविषत्वारोपार्थं सयुक्तिकं यथा तथा वह्नित्वादीनामपह्नवाद्धेत्वपह्नुत्यलङ्कारः । 'स एव युक्तिपूर्वश्चेदुच्यते हेत्वपह्नुतिः' इति लक्षणात् ॥ इतीति ॥ इति इत्थं, विधौ ब्रह्माणि अभिदधाने सति भाषमाणे सत्येव, अशङ्कितोपनतोपनतोऽतर्कितसंप्राप्तो यो रसातलस्य पाताळस्य, आतङ्कः तापः । 'अधोभुवनपाताळबलिसद्म' इत्यमरः । 'रुक्तापशङ्कास्वातङ्काः स्वल्पेऽपि क्षुल्लकस्त्रिषु' इति च । तेन सङ्घटितः कलितः यः समाधेः योगलक्षणनियमस्य । 'स्युस्समर्थननीवाकनियमाश्च समाधयः' इत्यमरः । क्षोभः स्खालित्यम् । 'क्षुभ सञ्चलने' 'इति धातोः पचाद्यच् । तेन यः कोपः क्रोषः, तेन
दुर्दर्शः दुर्निरीक्ष्यो यः कालरुद्रः तेन समुन्निद्रितमुन्मीलितं यत्फालनेत्रं तस्मादुत्थितः उद्भूतः, प्रळयपावकः प्रळयकालाग्निः, मथनमेव सङ्क्षोभः कर्षणं तेन चलितो यो बडबानलेन, मिळितः संवळितः तथाभूतः सर्गः सृष्टिः सर्गे सर्गे प्रतिसर्गम् । वीप्सायामव्ययीभावः । 'सर्गः स्वभावनिर्मोकनिश्चयाध्यायसृष्टिषु' इत्यमरः । निर्गळन्तः निस्सरन्तः, अनर्गळा निर्निरोधाश्च ये शेषस्य विषमिश्रिताः निःश्वासधूमाः तेषां संश्लेषेण जनितः यो विषमष्याः पिण्डः गोळकं अयोगोळकवत्
स इवेत्यर्थः । 'पिण्डो बपुषि निवापे गोळेऽप्यथ पिण्डमयसि गर्भशिशौ' इति भास्करः । सुन्दरतरोऽतिशयेन सुन्दरः यः मन्दरगिरिः तस्य कन्दरे शेत इति कन्दरशयं तच्च तत् स्वायम्भवं स्वयं व्यक्तं यच्छाम्भवलिङ्गं तस्य चलनेन