This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
-अदि
नेदं सृष्टं सकृदपि मया नोपदिष्टं त्वया वा
 
कि

किं
व्याहारैर्मम च किमपि क्षुभ्यतीवान्तरात्मा ॥ १० ॥

 
इत्यभिदधान एव विधौ, अशङ्कितोपनतरसातलातङ्कसङ्घटित-
समाधिक्षोभको पदुर्दर्शकालरुद्र- समुन्निद्रितफालनेत्रसमुत्थित इव महाप्रळय-
पावकः, प्रतिसर्गनिर्गळद नर्गळशेषविषनिःश्वासधूमसमाश्लेषजनितविषमपी-
षीपिण्ड इव मथनसंक्षोभचलितबडवाबानलसंवळितः, सुन्दरतर मन्दरगिरि-
कन्दरशयस्वायम्भवशाम्भवलिङ्गचलन- सम्भावितप्रत्यवाय इव परम-

 
[commentary]
 
विषाणां सर्पाणाम् । 'आशीविषो विषधरः' इत्यमरः । हानिः नाशः नास्ति,
तस्य तन्मुखत्वादिति भावः । इदं सकृदेकवारमपि मया न सृष्टं त्वया वा
नोपदिष्टं न प्रोक्तं व्याहारैरुक्तिभिः किम् । 'व्याहार उक्तिर्लपितम्' इत्यमरः ।
मम चान्तरात्मा मनः किमपि किं वा क्षुभ्यति बिभेतीत्यर्थ: । 'सुथः । 'क्षुभ सञ्चलने

भये च इति घा’ इति धातोर्लट् । जायमाने पदार्थे विलक्षणविषत्वारोपार्थं सयुक्तिकं
यथा तथा वह्नित्वादीनामपह्नवाद्धेत्वप हुह्नुत्यलङ्कारः । 'स एव युक्तिपूर्वश्चेदुच्यते
हेत्वपह्नुतिः' इति लक्षणात् ॥ इतीति ॥ इति इत्थं, विधौ ब्रह्माणि अभिदधाने
सं
ति भाषमाणे सत्येव, अशङ्कितोपनतोपनतोऽतर्कितसंप्राप्तो यो रसातलस्य पाताळस्य,
आतङ्क:कः तापः । 'अधोभुवनपाताळबलिसद्म' इत्यमरः । 'रुक्तापशङ्कास्वातङ्काः
स्वल्पेऽपि क्षुल्लकस्त्रिषु' इति च । तेन सङ्घटितः कलितः यः समाधे:धेः योग-
लक्षणनियमस्य । "'स्युस्समर्थन नीवाक नियमाश्च समाधयः' इत्यमरः । क्षोभः स्खा-
लित्यम् । 'क्षुभ सञ्चलने' 'इति धातोः पचाद्यच् ।' तेन यः कोपः क्रोषः, तेन

दुर्दर्श:शः दुर्निरीक्ष्यो यः कालरुद्रः तेन समुन्निद्रितमुन्मीलितं यत्फालनेत्रं तस्मा-
दुत्थितः उद्भूतः, प्रळयपावकः प्रळयकालाग्भिःनिः, मथनमेव सङ्क्षोभः कर्षणं तेन
चलितो यो बडबानलेन, मिळित:तः संवळितः तथाभूतः सर्गः सृष्टिः सर्गे सर्गे
प्रतिसंसर्गम् । वीप्सायामव्ययीभावः । 'सर्गः स्वभावनिर्मोक निश्चयाध्यायसृष्टिषु'
इत्यमरः । निर्गळन्तः निस्सरन्तः, अनर्गळा निर्निरोधाश्च ये शेषस्य विषमिश्रिताः
निःश्वासघूधूमाः तेषां संश्लेषेण जनितः यो विषमष्याः पिण्ड:डः गोळकं अयोगोळकवत्
स इं

स इ
वेत्यर्थ:थः । 'पिण्डो बपुषि निवापे गोळेऽप्यथ पिण्डमयसि गर्भशिशौ' इति
भास्करः । सुन्दरतरोऽतिशयेन सुन्दर: य: मन्दर रः यः मन्दरगिरिः तस्य कन्दरे शेत
इति कन्दरशयं तच्च तत् स्वायम्भवं स्वयं व्यक्तं यच्छाम्भवलिङ्गं तस्य चलनेन
 
36
 
२७७