This page has not been fully proofread.

तुरीयाश्वासः
 
-अदि सृष्टं सकृदपि मया नोपदिष्टं त्वया वा
 
कि व्याहारैर्मम च किमपि क्षुभ्यतीवान्तरात्मा ॥ १० ॥
इत्यभिदधान एव विधौ, अशङ्कितोपनतरसातलातङ्कसङ्घटित-
समाधिक्षोभको पदुर्दर्शकालरुद्रसमुन्निद्रितफालनेत्रसमुत्थित इव महाप्रळय-
पावकः, प्रतिसर्गनिर्गळद नर्गळशेषविषनिःश्वासधूमसमाश्लेषजनितविषमपी-
पिण्ड इव मथनसंक्षोभचलितबडवानलसंवळितः, सुन्दरतर मन्दरगिरि-
कन्दरशयस्वायम्भवशाम्भवलिङ्गचलन सम्भावितप्रत्यवाय इव परम-
विषाणां सर्पाणाम् । 'आशीविषो विषधरः' इत्यमरः । हानिः नाशः नास्ति,
तस्य तन्मुखत्वादिति भावः । इदं सकृदेकवारमपि मया न सृष्टं त्वया वा
नोपदिष्टं न प्रोक्तं व्याहारैरुक्तिभिः किम् । 'व्याहार उक्तिर्लपितम्' इत्यमरः ।
मम चान्तरात्मा मनः किमपि किं वा क्षुभ्यति बिभेतीत्यर्थ: । 'सुभ सञ्चलने
भये च इति घातोर्लट् । जायमाने पदार्थे विलक्षणविषत्वारोपार्थ सयुक्तिकं
यथा तथा वह्नित्वादीनामपह्नवाद्धेत्वप हुत्यलङ्कारः । स एव युक्तिपूर्वश्चेदुच्यते
हेत्वपहनुतिः' इति लक्षणात् ॥ इतीति ॥ इति इत्थं, विधौ ब्रह्माणि अभिदधाने
संति भाषमाणे सत्येव, अशङ्कितोपनतोपनतोऽतर्कितसंप्राप्तो यो रसातलस्य पाताळस्य,
आतङ्क: तापः । 'अधोभुवनपाताळबलिसद्म' इत्यमरः । 'रुक्तापशङ्कास्वातङ्काः
स्वल्पेऽपि क्षुल्लकस्त्रिषु' इति च । तेन सङ्घटितः कलितः यः समाधे: योग-
लक्षणनियमस्य । "युस्समर्थन नीवाक नियमाश्च समाधयः' इत्यमरः । क्षोभः स्खा-
लियम्। 'क्षुभ सञ्चलने' 'इति धातोः पचायच् ।' तेन यः कोपः क्रोषः, तेन
दुर्दर्श: दुर्निरीक्ष्यो यः कालरुद्रः तेन समुन्निद्रितमुन्मीलितं यत्फालनेत्रं तस्मा-
दुत्थितः उद्भूतः, प्रळयपावकः प्रळयकालाग्भिः, मथनमेव सङ्क्षोभः कर्षणं तेन
चलितो यो बडबानलेन, मिळित: संवळित तथाभूतः सर्गः सृष्टिः सर्गे सर्गे
प्रतिसंगम् । वीप्सायामव्ययीभावः । 'सर्गः स्वभावनिर्मोक निश्चयाध्यायसृष्टिषु'
इत्यमरः । निर्गळन्तः निस्सरन्तः, अनर्गळा निर्निरोधाश्च ये शेषस्य विषमिश्रिताः
निःश्वासघूमाः तेषां संश्लेषेण जनितः यो विषमष्याः पिण्ड: गोळकं अयोगोळकवत्
स इंवेत्यर्थ: । 'पिण्डो बपुषि निवापे गोळेऽप्यथ पिण्डमयसि गर्भशिशौ' इति
भास्करः । सुन्दरतरोऽतिशयेन सुन्दर: य: मन्दर गिरिः तस्य कन्दरे शेत
इति कन्दरशयं तच तत् स्वायम्भवं स्वयं व्यक्तं यच्छाम्भवलिङ्गं तस्य चलनेन
 
36
 
२७७