2023-08-18 09:08:57 by Bharadwajraki
This page has been fully proofread twice.
न संवर्तः प्राप्तो न च वहति संवर्तपवनः
शतेनाब्दैः शोषं नयति स परन्तु त्रिभुवनम् ।
न च व्यापद्यन्ते तदुपरि चरन्तस्तनुभृतः
क एष ब्रह्माण्डं कबळयति निश्शेषयति च ॥ ९ ॥
अपि च ।
नासौ[^१] वह्निर्न हि खलु भवत्यग्निनाग्नेः प्रणाशो
नापि क्ष्वेळो न हि गरळतो हानिराशीविषाणाम् ।
[commentary]
नेति ॥ संवर्तः प्रळयकालः न संप्राप्त; न समागत इत्यर्थः । 'संवर्तः प्रळयः कल्पः क्षयः’ इत्यमरः । संवर्तकालोचितश्चासौ पवनश्चेति शाकपार्थिवादित्वात्समासः । प्रळयोचितवायुश्चेत्यर्थः । न वहति न वातीत्यर्थः । स तु परं प्रळयवायुस्तु शतेन अब्दैस्संवत्सरैः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः' इत्यमरः । त्रिभुवनं त्रीन् लोकान् शोषं निस्सारतां शुष्कतामिति वाऽर्थः । नयति प्रापयति । तदुक्तं श्रीभागवते 'पर्जन्यश्शतवर्षाणि भूमौ राजन्न वर्षति । तदा निरन्ने ह्यन्योन्यं भक्षमाणाः क्षुधार्दिताः ॥ क्षयं यास्यन्ति शनकैस्तत्कालोपद्रुता जनाः । सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ रश्मिभिः पिबते घोरैस्सर्वं नैव विमुञ्चति । ततस्संवर्तको वह्निः सङ्कर्षणमुखोत्थितः ॥ दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ । उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः । दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ॥ ततः प्रचण्डपवनः वर्षाणामधिकं शतम् । ततस्सांवर्तको वाति धूम्रं खं रजसा वृतम् ॥ ततो मेघकुलान्यङ्गंग चित्रवर्णान्यनेकशः । शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः ॥' इति । तदुपरि त्रिभुवनस्योपरि चरन्तः तनुभृतः, प्राणिनः न च व्यापद्यन्ते विपदं न प्राप्नुवन्तीत्यर्थः । एष उद्भवन् पदार्थः कः ब्रह्माण्डं कबलं करोति कबळयति निश्शेषं करोति निश्शेषयति । 'तत्करोति' इति णिच् ॥ नेति ॥ असौ उद्भवन् पदार्थः वह्निर्न हि यस्मादग्निनाऽग्नेर्विनाशो न भवति । प्रत्युत तदभिवर्धकत्वादिति भावः । क्ष्वेळः विषमपि न । 'क्ष्वेळस्तु गरळं विषम्' इत्यमरः । हि यस्मात्, गरळतो विषादाशी-
[^१] कालकूटः विषाग्निः, अथापि न विषजातीयः, आशीविषाणां नाशात्, नापि अग्निजातीयकः, अग्नेर्नाशात् इति हेतूक्त्या अपह्नुते कविः ॥
शतेनाब्दैः शोषं नयति स परन्तु त्रिभुवनम् ।
न च व्यापद्यन्ते तदुपरि चरन्तस्तनुभृतः
क एष ब्रह्माण्डं कबळयति निश्शेषयति च ॥ ९ ॥
अपि च ।
नासौ[^१] वह्निर्न हि खलु भवत्यग्निनाग्नेः प्रणाशो
नापि क्ष्वेळो न हि गरळतो हानिराशीविषाणाम् ।
[commentary]
नेति ॥ संवर्तः प्रळयकालः न संप्राप्त; न समागत इत्यर्थः । 'संवर्तः प्रळयः कल्पः क्षयः’ इत्यमरः । संवर्तकालोचितश्चासौ पवनश्चेति शाकपार्थिवादित्वात्समासः । प्रळयोचितवायुश्चेत्यर्थः । न वहति न वातीत्यर्थः । स तु परं प्रळयवायुस्तु शतेन अब्दैस्संवत्सरैः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः' इत्यमरः । त्रिभुवनं त्रीन् लोकान् शोषं निस्सारतां शुष्कतामिति वाऽर्थः । नयति प्रापयति । तदुक्तं श्रीभागवते 'पर्जन्यश्शतवर्षाणि भूमौ राजन्न वर्षति । तदा निरन्ने ह्यन्योन्यं भक्षमाणाः क्षुधार्दिताः ॥ क्षयं यास्यन्ति शनकैस्तत्कालोपद्रुता जनाः । सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ रश्मिभिः पिबते घोरैस्सर्वं नैव विमुञ्चति । ततस्संवर्तको वह्निः सङ्कर्षणमुखोत्थितः ॥ दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ । उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः । दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ॥ ततः प्रचण्डपवनः वर्षाणामधिकं शतम् । ततस्सांवर्तको वाति धूम्रं खं रजसा वृतम् ॥ ततो मेघकुलान्यङ्
[^१] कालकूटः विषाग्निः, अथापि न विषजातीयः, आशीविषाणां नाशात्, नापि अग्निजातीयकः, अग्नेर्नाशात् इति हेतूक्त्या अपह्नुते कविः ॥