This page has not been fully proofread.

२७६
 
नीलकण्ठविजये सव्याख्याने
न संवर्तः प्राप्तो न च वहति संवर्तपवनः
शतेनाब्दैः शोषं नयति स परन्तु त्रिभुवनम् ।
न च व्यापद्यन्ते तदुपरि चरन्तस्तनुभृतः
 

 
क एष ब्रह्माण्ड कबळयति निश्शेषयति च ॥ ९ ॥
 
अपि च ।
 
STA
 
नासौं वह्निर्न हि खलु भवत्यग्निनानेः प्रणाशो
नापि वेळो न हि गरळतो हानिराशी विषाणाम् ।
 
नेति ॥ संवत: प्रळयकाल: न संप्राप्त; न समागत इत्यर्थ: । 'संवर्त: प्रळय:
कल्पः क्षयः इत्यमरः । संवर्तकालोचितश्चासौ पवनश्चेति शाकपार्थिवादित्वा-
त्समासः । प्रळयोचितवायुश्चेत्यर्थः । न वहति न वातीत्यर्थ: । स तु परं प्रळय-
वास्तु शतेन अब्देस्संवत्सरैः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समा: '
इत्यमरः । त्रिभुवनं त्रीन् लोकान् शोषं निस्सारतां शुष्कतामिति वाऽर्थः ।
नयति प्रापयति । तदुक्तं श्रीभागवते 'पर्जन्यश्शतवर्षाणि भूमौ राजन्न वर्षति ।
तदा निरन्ने ह्यन्योन्यं भक्षमाणाः क्षुधार्दिताः ॥ क्षयं यास्यन्ति शनकैस्तत्कालोपद्रुता
जनाः । सामुद्रं दैहिकं भौम रस सांवर्तको रविः ॥ रश्मिभिः पिबते घोरस्सर्व
नैव विमुञ्चति । ततस्संवर्तको बहिः सङ्कर्षणमुखोत्थितः ॥ दहत्यनिलवेगोत्थः
शून्यान् भूविवरानथ । उपर्यधः समन्ताञ्च शिखाभिर्वह्निसूर्ययोः । दह्यमानं विभा-
त्यण्ड दग्धगोमयपिण्डवत् ॥ ततः प्रचण्डपवनः वर्षाणामधिकं शतम् । ततस्सां-
वर्तको वाति धूम्रं वं रजसा वृतम् ॥ ततो मेधकुलाम्यङ्ग चित्रवर्णान्यनेकशः ।
 
39
 
शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः ॥' इति + तदुपरि त्रिभुवनस्योपरि
 
744
 
:
 
S
 

 
चरन्तः तनुभृतः, प्राणिनः न च व्यापद्यन्ते विपदं न प्राप्नुवन्तीत्यर्थः । एष
उद्भवन् पदार्थः कः ब्रह्माण्डं कचुलं करोति कवळयति निश्शेषं करोति निश्शेष-
यति । 'तत्करोति', इति णिच ॥ नेति ॥ असौ उद्भवन् पदार्थः वह्निन हि
यस्मादमिनाऽमेर्विनाशो न सवति । प्रत्युत तदभिवर्धकत्वादिति भावः । क्ष्वेळ:
विषमपि न । 'क्ष्वेऴस्तु गरळं विषम्' इत्यमरः । हि यस्मात् गरळतो विषादाशी-
,
 
`1. कालकूट: विषाग्निः, अथापि न विषजातीय:, आशीविषाणां नाशात्, नापि
अभिजातीयकः, अग्नेर्नाशात् इति हेतू क्या अपह्नुते कविः ॥