2023-08-17 11:14:16 by Bharadwajraki
This page has been fully proofread twice.
ऊष्माणाववहद्विभावसुरुभौ सांसिद्धिकागन्तुकौ
सस्यन्दे क्वथिततं शरीरमभितः पाथोमयं पाशिनः ।
सर्वाङ्गीणदृगन्तकन्दळदतिस्फाराश्रुधाराशतैः
सेकंसेकमनुक्षणं तु मघवा गात्रं दधौ जीवितम् ॥ ८ ॥
हताः स्मो वयमस्मिन् कर्मणि प्रवर्तिता भवतेति परिभाषमाणेषु सुरासुरेषु, परितप्यमानस्ततोऽपि त्रपयैव पद्मसम्भवो विश्वम्भरमिदमवादीत् 'भगवन् किमेतदिति मन्यसे ।
[commentary]
लोचनेनेव धरणीतले प्राकृताः पृथग्जना इव । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । पर्यचेष्टन्त हस्तपादादिघातं कृत्वा चेष्टाश्चकुक्रुरित्यर्थः । अत्रोक्तं देवीभागवते 'मथ्यमानात्ततस्तस्मात् क्षीराब्धेर्देवदानवैः । ततः क्षणात्समभवत् कालकूटो महोल्बणः ॥ ज्वालया तस्य सर्वेऽपि मूर्च्छामापुः सुरा नृप । दैत्या निश्चेतना जाता विष्णुः कृष्णस्तदाभवत् ॥" इति ॥ ऊष्माणाविति ॥ विभावसुस्सूर्यः । 'विभावसुर्ग्रहपतिः' इत्यमरः । सांसिद्धिकागन्तुकौ स्वाभाविकतदात्वसम्प्राप्तावित्यर्थः । उभौ ऊष्माणौ उभयविधं तापमित्यर्थः । अवहत् धृतवानित्यर्थः । तयोर्विषाग्निसम्बन्ध्येकं अपरं तु विषाग्न्यभिभूततया बहिः प्रसरणाभावादन्तरेव स्थितं स्वीयमेकमिति भावः । पाशिनो वरुणस्य । 'प्रचेता वरुणः पाशी' इत्यमरः । पाथसां जलानां विकारः पाथोमयं अम्मयमित्यर्थः । 'क्वथे पाके' क्तः । पक्वं सत् सस्यन्दे द्रवीबभूवेत्यर्थः । अतिस्फाराण्यभिवृद्धानि सर्वाङ्गीणानि सर्वावयवव्यापीनि दृगन्तेषु कन्दळन्ति प्ररोहन्ति यान्यश्रूणि बाष्पाणि तेषां या धाराः परम्पराः तासां शतैरनेकैरित्यर्थः । मघवतः गात्रं शरीरमनुक्षणं प्रतिक्षणं सेकंसेकं सिक्त्वा सिक्त्वा जीवितं जीवनम् । भावे क्तः । दधौ दधारेत्यर्थः । किं वक्तव्यमितरेषामिति भावः ॥ हता इति ॥ अस्मिन् समुद्रमथनरूपे कर्मणि व्यापारे भवता प्रवर्तिताः उत्सुकीकृतास्सन्तः हताः हिंसिताः स्मः इति इत्थं सुरासुरेषु परिभाषमाणेषु, सनिन्दोपालम्भं कुर्वत्सु । 'यस्सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इत्यमरः । त्रपया लज्जयैव ततोऽपि परिभाषणेनापि । सार्वविभक्तिकस्तसिः । तप्यमानस्सन्तापितः पद्मसम्भवो ब्रह्मा, विश्वम्भरं श्रीहरिं प्रत्यवादीत् जगादेत्यर्थः । भगवन्विष्णो एतदुद्यद्वस्तु किमिति मन्यसे जानासि ॥
सस्यन्दे क्वथि
सर्वाङ्गीणदृगन्तकन्दळदतिस्फाराश्रुधाराशतैः
सेकंसेकमनुक्षणं तु मघवा गात्रं दधौ जीवितम् ॥ ८ ॥
हताः स्मो वयमस्मिन् कर्मणि प्रवर्तिता भवतेति परिभाषमाणेषु सुरासुरेषु, परितप्यमानस्ततोऽपि त्रपयैव पद्मसम्भवो विश्वम्भरमिदमवादीत् 'भगवन् किमेतदिति मन्यसे ।
[commentary]
लोचनेनेव धरणीतले प्राकृताः पृथग्जना इव । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । पर्यचेष्टन्त हस्तपादादिघातं कृत्वा चेष्टाश्च