This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
ऊष्माणाववह द्विभावसुरुभौ सांसिद्धिकागन्तुकौ
 

सस्यन्दे क्वथित शरीरमभितः पाथोमयं पाशिनः ।

सर्वाङ्गीणदृगन्तकन्दळदतिस्फाराश्रुधाराशतैः

सेकंसेकमनुक्षणं तु मघवा गालंत्रं दधौ जीवितम् ॥ ८ ॥
 

 
हताः स्मो वयमस्मिन् कर्मणि प्रवर्तिता भवतेति परिभाषमाणेषु
सुरासुरेषु, परितप्यमानस्ततोऽपि त्रपयैव पद्मसम्भवो विश्वम्भरमिदम-
वादीत् 'भगवन् किमेतदिति मन्यसे ।
 
२७५
 

 
[commentary]
 
लोचनेनेव रणीतले प्राकृताः पृथग्जना इव । 'विवर्ण:णः पामरो नीचः प्राकृतश्च
पृथग्जनः' इत्यमरः । पर्यचेष्टन्त हस्तपादादिघातं कृत्वा चेष्टाश्चकुरित्यर्थः ।
अत्रोक्तं देवीभागवते 'मध्थ्यमानात्ततस्तस्मात् क्षीराब्धेर्देवदानवैः । ततः क्षणात्
समभवत् कालकूटो महोल्बण:णः ॥ ज्वालया तस्य सर्वेऽपि मूर्च्छामापुः सुरा नृप ।
दैत्या निश्चेतना जाता विष्णुः कृष्णस्तदा भवत् ॥" इति ॥ ऊष्माणाविति ॥
विभावसुस्सूर्य:यः । 'विभावसुर्ग्रहपतिः' इत्यमरः । सांसिद्धिकागन्तुकौ स्वाभावि-
कृ
तदात्वसम्प्राप्तावित्यर्थः । उभौ ऊष्माणौ उभयविधं तापमित्यर्थः । अवहत्
धृतवानित्यर्थः । तयोर्विषाझिग्निसम्बन्ध्येकं अपरं तु विषाग्न्यभिभूततया बहि:-
हिः प्रसरणाभावादन्तरेव स्थितं स्वीयमेकमिति भावः । पाशिनो वरुणस्य । 'प्रचेता
वरुण:णः पाशी' इत्यमरः । पाथसां जलानां विकार :रः पाथोमयं अम्मयमित्यर्थः ।
'क्वथे: पाके' क्तः । पकंक्वं सत् सस्यन्दे द्रवीबभूवेत्यर्थः । अतिस्फाराण्यभिवृद्धानि
सर्वाङ्गीणानि सर्वावयवव्यापीनि दृगन्तेषु कन्दळन्ति प्ररोहन्ति यान्यश्रूणि बाष्पाणि
तेषां या धाराः परम्पराः तासां शतैरनेकैरित्यर्थः । मघवतः गात्रेरं शरीरमनुक्षणं
प्रतिक्षणं सेकंसेकं सिक्त्वा सिक्त्वा जीवितं जीवनम् । भावे क्तः । दधौ दधारेत्यर्थः ।
कि:-
किं वक्तव्यमितरेषामिति भावः ॥ हता इति ॥ अस्मिन् समुद्रमथनरूपे
कर्मणि व्यापारे भवता प्रवर्तिताः उत्सुकीकृतास्सन्तः हताः हिंसिताः स्मः इति इत्थं
सुरासुरेषु परिभाषमाणेषु, सनिन्दोपालम्भं कुर्वत्सु । 'यस्सनिन्द उपालम्भस्तत्र
स्यात्परिभाषणम्' इत्यमरः । त्रपया लज्जयैव ततोऽपि परिभाषणेनापि । सार्व-
विभक्तिकस्तसिः । तप्यमानस्सन्तापितः पद्मसम्भवो ब्रह्मा, विश्वम्भरं श्रीहरिं
प्रत्यवादीत् जगादेत्यर्थः । भगवन्विष्णो एतदुद्यद्वस्तु किमिति मन्यसे जानासि ॥