2023-06-05 16:40:31 by ambuda-bot
This page has not been fully proofread.
तुरीयाश्वासः
ऊष्माणाववह द्विभावसुरुभौ सांसिद्धिकागन्तुकौ
सस्यन्दे क्वथित शरीरमभितः पाथोमयं पाशिनः ।
सर्वाङ्गीणदृगन्तकन्दळदतिस्फाराश्रुधाराशतैः
सेकंसेकमनुक्षणं तु मघवा गालं दधौ जीवितम् ॥ ८ ॥
हताः स्मो वयमस्मिन् कर्मणि प्रवर्तिता भवतेति परिभाषमाणेषु
सुरासुरेषु, परितप्यमानस्ततोऽपि त्रपयैव पद्मसम्भवो विश्वम्भरमिदम-
वादीत् 'भगवन् किमेतदिति मन्यसे ।
२७५
लोचनेनेव घरणीतले प्राकृताः पृथग्जना इव । 'विवर्ण: पामरो नीचः प्राकृतश्च
पृथग्जनः' इत्यमरः । पर्यचेष्टन्त हस्तपादादिघातं कृत्वा चेष्टाश्चकुरित्यर्थः ।
अत्रोक्तं देवीभागवते 'मध्यमानात्ततस्तस्मात् क्षीराब्धेर्देवदानवैः । ततः क्षणात्
समभवत् कालकूटो महोल्बण: ॥ ज्वालया तस्य सर्वेऽपि मूर्च्छामापुः सुरा नृप ।
दैत्या निश्चेतना जाता विष्णुः कृष्णस्तदा भवत् ॥" इति ॥ ऊष्माणाविति ॥
विभावसुरसूर्य: । 'विभावसुग्रहपतिः' इत्यमरः । सांसिद्धिकागन्तुकौ स्वाभावि-
कृतदात्वसम्प्राप्तावित्यर्थः । उभौ ऊष्माणौ उभयविधं तापमित्यर्थः । अवहत्
धृतवानित्यर्थः । तयोर्विषाझिसम्बन्ध्येकं अपरं तु विषाग्न्यभिभूततया बहि:-
प्रसरणाभावादन्तरेव स्थितं स्वीयमेकमिति भावः । पाशिनो वरुणस्य । 'प्रचेता
वरुण: पाशी' इत्यमरः । पाथसां जलानां विकार : पाथोमयं अम्मयमित्यर्थः ।
'कथे: पाके' क्तः । पकं सत् सस्यन्दे द्रवीबभूवेत्यर्थः । अतिस्फाराण्यभिवृद्धानि
सर्वाङ्गीणानि सर्वावयवव्यापीनि दृगन्तेषु कन्दळन्ति प्ररोहन्ति यान्यश्रूणि बाष्पाणि
तेषां या धाराः परम्पराः तासां शतैरनेकैरित्यर्थः । मघवतः गात्रे शरीरमनुक्षणं
प्रतिक्षणं सेकंसेकं सिक्त्वा सिक्त्वा जीवित जीवनम् । भावे क्तः । दधौ दधारेत्यर्थः ।
कि:- वक्तव्यमितरेषामिति भावः ॥ हता इति ॥ अस्मिन् समुद्रमथनरूपे
कर्मणि व्यापारे भवता प्रवर्तिताः उत्सुकीकृतास्सन्तः हताः हिंसिताः स्मः इति इत्थं
सुरासुरेषु परिभाषमाणेषु सनिन्दोपालम्भं कुर्वत्सु । 'यस्सनिन्द उपालम्भस्तत्र
स्यात्परिभाषणम्' इत्यमरः । त्रपया लज्जयैव ततोऽपि परिभाषणेनापि । सार्व-
विभक्तिकस्तसिः । तप्यमानस्सन्तापितः पद्मसम्भवो ब्रह्मा, विश्वम्भरं श्रीहरिं
प्रत्यवादीत् जगादेत्यर्थः । भगवन्विष्णो एतदुधद्वस्तु किमिति मन्यसे जानासि ॥