2023-06-29 10:59:54 by Bharadwajraki
This page has been fully proofread once and needs a second look.
यस्संरम्भः कृतिविरचने दुष्कवीनामभेद्यो
यच्चैकाग्रधं[^१] तदुचितपदान्वेषणे चित्तवृत्तेः ।
लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि
स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥ ४ ॥
----------------
पाद्यस्य शिवोत्कर्षस्य कलौ प्रथमप्रवर्तकं श्रीमदप्पयदीक्षितमाचार्यं संभावयन्
तस्येश्वरावतारत्वप्रतिपादनेन तत्स्मरणेऽत्यन्तमङ्गळबुद्धिमुत्पाद्य स्वशिष्यानपि प्रवर्तयन् 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' भ.गी. 4-7 इतीश्वरोत्तयनुरोधेन अनेकपाषण्डैर्वेदे विप्लाविते सति तदुद्धरणाय भगवान् श्रीशङ्करगुरु: अप्पय्यदीक्षितरूपेणावततारेति प्रतिपादयन् ईश्वरावताररूपस्याप्पयदीक्षितस्य सर्वोत्कर्षं सर्ववेदान्तसिद्धान्तकाष्ठात्मकशिवविद्यागुरुत्वेनापि प्रतिपादयति ॥ लीढालीढेत्यादिना ॥ शिवविद्यायास्सर्ववेदान्तकाष्ठात्वं 'पुरुषो वै[^२] रुद्रस्सन्महो नमो नम:' तै. आ. अ. 10-24 इत्यादिनानुसन्धेयम् । कलौ कलियुगे । कतिपयैः वस्तुतो मूढैः पण्डिताभासैः कतिभिश्चित्, सान्द्रतां निबिडतां, नीते प्रापिते सति । तदुपचयस्य श्रुतिपर्यासहेतुतां द्रढयत् तेषां श्रुत्यर्थसम्यग्ज्ञानाभावमाह लीढालीदेति विशेषणेन । लीढा: स्थूलरूपेण ज्ञाताः अलीढाः सूक्ष्मरूपेणाज्ञाताः, या पुराणसूक्तयः[^३] वेदवाचः, तासां यानि शकलान्यंशाः, तेषामवष्टम्भः तन्मात्रपरत्वं, तस्य या सम्भावना तद्विशेष्यकसामञ्जस्यबुद्धिः, तया पर्यस्ता[^४] विपर्यासिताः, श्रुतय एव सेतवो यैस्ते, तथोक्तैः । अत्र श्रुतीनां सेतुत्वव्यपदेश इदमदोलोकासम्भेदप्रयोजकत्वादिति ज्ञेयः । एवं लोके
पाषण्डप्रचुरे सति, श्रीकण्ठ: कैलासनायक: अच्युतः नारायण: कल्क्यात्मनेव कल्किशरीरेणेव, पाषण्डोद्धारायेति भावः । यस्य वपुषा अवततार यन्नामसंज्ञ-
--------------
[^१] ऐकान्त्यमिति व्याख्यानुसारेण पाठः, कोशस्थपाठस्तु ऐकाग्र्यमिति ।
[^२] रुद्र एव पूर्णत्वात् आप्तकामत्वात् पुरुष:, सन्-शाश्वतो नित्यः, महः-ज्योतिः चैतन्यरूपः, इति सच्चिदानन्दात्मकं ब्रह्म इत्यर्थः ॥
[^३] "इतिहासपुरणाभ्यां वेदं समुपबृंहयेत् " - इत्यभियुक्तोक्तया अष्टादशोपबृंहणा-
भासपुराणसूक्तानुरोधेनापि श्रुतिसेतुविपर्यासो घटते ।
[^४] पर्यस्तेति अन्तर्भावितणिजन्तार्थः