2023-06-29 10:59:35 by Bharadwajraki
This page has been fully proofread once and needs a second look.
नीलकण्ठविजये सव्याख्याने
यस्संरम्भः कृतिविरचने दुष्कवीनामभेद्यो
यच्चैकाग्रधं[^१] तदुचितपदान्वेषणे चित्तवृत्तेः ।
लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि
स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥ ४ ॥
----------------
पाद्यस्य शिवोत्कर्षस्य कलौ प्रथमप्रवर्तकं श्रीमदप्पय
दीक्षितमाचार्ययं संभावयन्
तस्येश्वर । रावतारत्वप्रतिपादनेन तत्स्मरणेऽत्यन्तम ङ्गळबुद्धिमुत्पाद्य स्वशिष्यानपि
प्रवर्तयन् ' यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं
सृजाम्यहम् ॥' भ.गी. 4-7 इतीश्वरोत्तयनुरोधेन अनेकपाषण्डैवेंर्वेदे विष्ठाप्लाविते सति
तदुद्धरणाय भगवान् श्रीशङ्करगुरु: अप्पय्यदीक्षितरूपेणावततारेति प्रतिपादयन्
ईश्वरावताररूपस्याप्पयदीक्षितस्य सर्वोत्कर्षषं सर्ववेदान्त सिद्धान्तकाष्ठात्मकशिवविद्या-
गुरुत्वेनापि प्रतिपादयति ॥ लीढालीढेत्यादिना ॥ शिवविद्यायास्सर्ववेदान्त-
काष्ठात्वं 'पुरुषो वै2[^२] रुद्रस्सन्महो नमो नम:' तै. आ. अ. 10-24 इत्यादिनानुसन्धे-
यम् । कलौ कलियुगे । कतिपयैः वस्तुतो मूढैः पण्डिताभासैः कतिभिश्चित्,
सान्द्रतां निचिबिडतां, नीते प्रापिते सति । तदुपचयस्य श्रुतिपर्यासहेतुतां द्रढयत् तेषां
श्रुत्यर्थसम्यग्ज्ञानाभाघवमाह लीढालीदेति विशेषणेन । लीढा: स्थूलरूपेण ज्ञाता,
ताः अलीढाः सूक्ष्मरूपेण णाज्ञाताः, या पुराण सूक्तयः[^३] वेदवाचः, तासां यानि शक-
लान्यंशाः, तेषामवष्टम्भः तन्मात्रपरत्वं, तस्य या सम्भावना तद्विशेष्य कसामञ्जस्य-
बुद्धिः, तया पर्यस्ता[^४] विपर्यासिताः, श्रुतय एव सेतवो यैस्ते, तथोक्तैः । अत्र
श्रुतीनां सेतुत्वव्यपदेश इदमदोलो कासम्भेदप्रयोजकत्व/वादिति ज्ञेयः । एवं लोके
पाषण्डप्रचुरे सति, श्रीकण्ठ: कैलासनायक: अच्युतः नारायण: कल्क्यात्मनेव
कल्किशरीरेणेव, पाषण्डोद्धारायेति भावः । यस्य वपुषा अवततार यन्नामसंज्ञ-
"
1.
--------------
[^१] ऐकान्त्यमिति व्याख्यानुसारेण पाठः, कोशस्थ पाठस्तु ऐकाव्ग्र्यमिति ।
2.
[^२] रुद्र एव पूर्णत्वात् आप्तकामत्वात् पुरुष: ;
3
, सन्-शाश्वतो नित्यः, महः-ज्योतिः चैतन्यरूपः, इति सच्चिदानन्दात्मकं ब्रह्म इत्यर्थः ॥
सन्-शाश्वतो नित्यः, महः - ज्योतिः
3.
[^३] "इतिहासपुरणाभ्यां वेददं समुपबृबृंहयेत् " —- इत्यभियुक्तोक्तया अष्टादशोपबृंहणा-
भासपुराणसूक्तानुरोधेनापि श्रुतिसेतुविपर्यासो घटते ।
4.
[^४] पर्यस्तेति अन्तर्भावितणिजन्तार्थः