This page has been fully proofread twice.

सलिलक्लिन्ना वस्त्रभस्त्रिकेव रिक्तोदरा निस्सारतया क्षणादवालम्बत नितम्बतश्शैलपतेः ।
 
परिमृष्टाश्च तेन मायाविनोऽपि महासुराः, सुकृतशालिनोऽपि सुपर्वाणः, माहात्म्यनिधयोऽपि महर्षयः, चिरजीविताबलेन परं [^१]चिन्मात्रशेषिताः, परिक्षीणया गिरा, परिभ्रमता च लोचनेन, प्राकृता इव पर्यचेष्टन्त धरणीतले ।
 
[commentary]
 
उत्प्लुत्य धावनं चकारेत्यर्थः । किमतप्यत तप्तः सञ्जात इत्यर्थः । किं निरदह्यत भस्मीकृतः किमित्यर्थः । किं मुमूर्च्छ मूर्च्छां प्राप किमित्यर्थः । किं जीवितं प्राणनं जहौ तत्याज किमित्यर्थः । इति एवमासीदिति न ज्ञायते तत्काले तत्र कोऽपि स्थातुं शक्तो नाभूदिति भावः ॥ उदिति ॥ प्राणैस्समं उद्वान्तः उद्गीर्णः विषानलो यया सा तथाभूतेव उरगपतेर्वासुकेस्तनुः कायोऽपि निस्सारतया निर्जलतया सलिलेन क्लिन्ना आर्द्रा । 'आर्द्रं सार्द्रं क्लिन्नम्' इत्यमरः । वर्ध्र्येव वर्ध्रिका । स्वार्थे कः । चर्मेवेत्यर्थः । 'नध्री वध्रीं वरत्रा स्यादश्वादेस्ताडनी कशा’ इत्यमरः । रिक्तं पिष्टतूलादिरहितं उदरं कुक्षिदेशो यस्यास्सा तथाभूता भस्त्र्येव भस्त्रिका । अत्रापि स्वार्थे कः । स्वर्णकारैः पुटपाकार्थं सन्निधौ
धमनोपयोगिसन्दानितचर्मविकारः क्रियते तदेव भस्त्राशब्देन गृह्यते । 'तैजसावर्तिनी मूभूषा भस्त्रा चर्मप्रसेविका' इत्यमरः । क्षणात्क्षणं विहाय शैलपतेर्मन्दरस्य नितम्बतः नितम्बदेशे । सार्वविभक्तिकस्तसिः । अवलम्बत लम्बमाना बभूव । भगवत्तेजता आप्यायितापीति भावः । तदुक्तं श्रीभागवते -- 'निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः । सम्भ्रान्तमीनोन्मकराहिकच्छपात्तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥’ ॥ परीति ॥ माया कापट्यमेषामस्तीति मायाविनः । 'अस्मायामेधास्रजो विनिः' (५.२.१२१) इति विनिप्रत्ययः । तथाविधा अपि महासुराः दानवाः सुकृतं पुण्यं तच्छालिनोऽपि सुपर्वाणः देवाः माहात्म्यस्य निधयः स्थानभूता अपि सिद्धाः अणिमादिशालिनः महर्षयः वसिष्ठादयश्च तेन विषेण परामृष्टाः स्पृष्टास्सन्तः चिरजीविता चिरकालजीवित्वं तस्या बलेन परं सामर्थेनैकेनैवेत्यर्थः । चिन्मात्रं, प्रज्ञामात्रं तेन शेषिताः अवशेषितास्सन्तः प्रक्षीणया गिरा विनष्टया वाचेत्यर्थः । परिभ्रमता घूर्णमानेन
 
[^१] 'चिन्मात्रशेषिताः' -- इत्युक्त्या अङ्गेषु प्रतिफलितचैतन्यनाशेऽपि नित्यचैतन्यमवशिष्टमिति दर्शयन् -- 'जीवः चिन्मात्रं ब्रह्म' -- इत्यद्वैतसिद्धान्तं स्वकं सूचयति ।