This page has been fully proofread twice.

ततः प्रभूतभूतघातजातपातकावली-
विलापनाभिलाषुकः किमाससाद सागरम् ॥ ७ ॥
 
ततस्तदालीढास्सप्तापि सिन्धवः सप्ताज्यबिन्दव इव जज्वलुरेकयैव ज्वालया । तदग्रसरोष्मतापिता एव भस्मावशेषतामभजन्त जन्तवः क्षुद्रास्त्रिभुवने । प्रदीपशिखराग्रविन्यस्तेन प्रसूनेनेव धुत्तूरस्य, सुधानिधिनैव सुतरां परिमम्ले ।
 
प्रक्षिप्तो दूरमस्य मरुतो रंहसा [^१]पतगपतिरेव किं पपात, किमुत्पपात, किमतप्यत, किं निरदह्यत, किं मुमूर्च्छ, किं जीवितं जहाविति न ज्ञायते । उद्धावान्तविषानला सममिव प्राणैरुरगपतेरपि तनुर्वर्ध्रिकेव
 
[commentary]
 
चकारेति यत् दुर्जयं निरोद्धुमशक्यं यदूष्म तेन जर्जरं जीर्णं जगत् बभर्ज भर्जनञ्चकारेति यत् ततो भर्जनात् प्रभूतमधिकं भूतानां प्राणिनां घातेन संहारेण जातानि यानि पातकानि तेषामावळिः पङ्क्तिः तस्या विलोपनम् अपनोदनं तस्मिन्नभिलाषुको लुब्धः । 'लुब्धोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ' इत्यमरः । तथाभूतस्सन् सागरमाससाद प्राप किं सर्वपापनिवर्तकसमुद्र[^२]स्नानेच्छयेति भावः ॥ तत इति ॥ ततो निर्गमनानन्तरं तेन ऊष्मणा लीढाः आक्रान्तास्सप्त सप्तसङ्ख्याकाः । तदुक्तममरेण 'दधिक्षीरसुरासर्पिलवणोदास्तथाऽपरे । स्वादूदकोदश्चेक्षूद इति सप्त प्रकीर्तिताः ॥' सिन्धवस्समुद्राः सप्ताज्यबिन्दव इव एकयैव ज्वालया जज्वलुः उद्दिदीपिरे ॥ तदिति ॥ त्रिभुवने क्षुद्राः जन्तवः प्राणिनः । 'प्राणी तु चेतनो जन्मी जन्तु-' इत्यमरः । तस्य विषस्य अग्रसरोष्मणा पुरोनिर्गतोष्मणैव तापिताः तापं प्रापिता एव भस्मावशेषतां भस्मना रूपेणावशिष्टत्वं अभजन्त प्रापुरित्यर्थः ॥ प्रदीपेति ॥ प्रदीपशिखराग्रे विन्यस्तेन निक्षिप्तेन धुत्तूरस्य काञ्चनवृक्षस्य कुसुमेन पुष्पेणेव । 'उन्मत्तः कितवो धूर्तो धुत्तूरः काञ्चनाह्वयः' इत्यमरः । सुधानिधिना क्षीरार्णवेन परिमम्ले । 'ग्लै म्लै हर्षक्षये' इति धातोर्भावे लिट् ॥ प्रक्षिप्त इति ॥ अस्य विषराजस्य मरुतः पवनस्य रंहसा वेगेन दूरं प्रक्षिप्तः विनिवेशितः पतगपतिर्गरुड एव पपात पतनं चकार, किमुत्पपात
 
[^१] पतगपतेरपीदृशी अवस्था चेत् किमु वक्तव्यमन्येषां क्षुद्राणाम् । अत एवाह -- 'निष्क्रान्ते गरले द्रुते सुरगणे निश्चेष्टिते विष्टपे" इति ॥
 
[^२] मारुतस्य सागरप्रवेशः सर्वपापनिवर्तकसमुद्रस्नानेच्छयेव इति हेतूत्प्रेक्षा ॥