This page has been fully proofread once and needs a second look.

तुरीयाभ्वासः
 
ततः प्रभूतभूतघातजातपातकावली -
 

विलापनाभिलाषुकः किमाससाद सागरम् ॥ ७ ॥

 
ततस्तदालीदाढास्सप्तापि सिन्धवः सप्ताज्यबिन्दव इव जज्वलुरेक-
यैव ज्वालया । तदग्रसरोष्मतापिता एव भस्मावशेषतामभजन्त जन्तवः
क्षुद्रास्त्रिभुवने । प्रदीपशिखराग्रविन्यस्तेन प्रसूनेनेव धुत्तूरस्य, सुधा-
निधिनैव सुतरां परिमम्ले ।
 
the
 

 
प्रक्षिप्तो दूरमस्य मरुतो रंहसा [^१]पतगपतिरेव किकिं पपात, किमुत्प-
पात, किमतप्यत, किं निरर्ह्यत, किकिं मुमूर्च्छ, किकिं जीवितं जहाविति
ने
ज्ञायतेंते । उद्धान्तविषानला सममिव प्राणैरुरगपतेरपि तनुर्वर्धिध्रिकेव

 
[commentary]
 
चकारेति यत् दुर्जयं निरोद्धुमशक्यं यदूष्म तेन जर्जरं जीर्णं जगत् बभर्ज भर्जनञ्च -
कारेति यत् ततो भर्जनात् प्रभूतमधिकं भूतानां प्राणिनां घातेन संहारेण जातानि
यानि पातकानि तेषामावळि: पडूळिः पङ्क्तिः तस्या विलोपनम् अपनोदनं तस्मिन्नभिलाषुको
लुब्धः । 'लुब्धोऽभिलाषु कस्तृष्णक् समौ लोलुपलोलुभौ' इत्यमरः । तथाभूत-
स्सन् सागरमाससाद प्राप किकिं सर्वपापनिवर्तकसमुद्र [^२]स्नानेच्छयेति भावः ॥ त
इति ॥ ततो निर्गमनानन्तरं तेन ऊष्मणा लीढाः आक्रान्तास्सप्त सप्तसङ्ख्याकाः
तदुक्तम मरेण 'दधिक्षीरसुरासर्पिलवणोदास्तथाऽपरे । स्वादूदकोदश्चेक्षूद इति सप्त
प्रकीर्तिताः ॥' सिन्धवस्समुद्राः सप्ताज्यबिन्दव इव एकयैव ज्वालया जज्वलुः
उद्दिदीपिरे ॥ तदिति ॥ त्रिभुवनेंने क्षुद्राः जन्तवः प्राणिनः । 'प्राणी तु
चेतनो जन्मी जन्तु-' इत्यमरः । तस्य विषस्य अग्रसरोष्मणा पुरोनिर्गतोष्मणैव
तापिताः तापं प्रापिता एव भस्मावशेषतां भस्मना रूपेणावशिष्टत्वं अभजन्त
प्रापुरित्यर्थः ॥ प्रदीपेति ॥ प्रदीपशिखराग्रे विन्यस्तेन निक्षिप्तेन धुत्तूरस्य
काञ्चनवृक्षस्य कुसुमेन पुष्पेणेव । 'उन्मत्तः कितवो धूर्तो धुत्तूरः काञ्चनाह्वयः'
इत्यमरः । सुधानिधिना क्षीरार्णवेन परिमम्ले । 'ग्लै म्लै हर्षक्षये' इति
घा
धातोर्भावे लिट् ॥ प्रक्षिप्त इति ॥ अस्य विषराजस्य मरुतः पवनस्य रंहसा वेगेन
दूरं प्रक्षिप्तः विनिवेशितः पतगपतिर्गरुड एव पपात पतनं चकार, किमुत्पपात
 
17.
 
महाद
 
1
 
$
 
२७३
 
1
 
1...

 
[^१]
पतगपतेरपीदृशी अवस्था चेत् किमु वक्तव्यमन्येषां क्षुद्राणाम् । अत एवाह -
- 'निष्काक्रान्ते गरले द्रुते सुरगणे निश्चेष्टिते विष्टपे" इति ॥
 
-p$12. "

 
[^२]
मारुतस्य सागर प्रवेश:शः सर्वपाप निवर्तक समुद्रस्नानेच्छयेव इति हेतुतूत्प्रेक्षा ॥
 

 
N_SB
 
-