This page has been fully proofread twice.

तदनु निर्गमिष्यतः कालकूटस्योष्मणा क्वथितादुदधेरुत्पतन्तः पयःकणा यत्र यत्र निपेतुस्तत्र तत्र पर्वता व्यदीर्यन्त, पादपाः प्रजज्वलुः, पशुपक्षिणो विनेशुः, प्रागेव सागरचराणि यादांसि ।
 
निस्सङ्ख्यस्फुरितस्फुलिङ्गजटिलोत्सङ्गज्वलत्पावक-
ज्वालाभङ्ङ्गविटङ्कसङ्कलितधूमस्तोमभीमस्ततः ।
क्रुध्यत्कालविवृत्तवक्त्रकुहरोन्मुक्ताट्टहासोद्भट-
[^१]स्फूत्कारध्वनिभीषणः प्रववृते कोऽप्यद्भुतो मारुतः ॥ ६ ॥
 
स निर्जिहान एव यज्जगर्ज तर्जयन् दिशो
बभर्ज यच्च दुर्जयोष्मजर्जरं पुनर्जगत् ।
 
[commentary]
 
मृत्योर्यमस्य मुखबिलमिति वदनद्वारमित्यर्थः । प्राप्तं प्रविष्टमिवासीत् अभवत् । तदन्विति ॥ निर्गमिष्यत आविर्भविष्यतः कालकूटस्य विषस्य । 'पुंसि क्लीबे च काकोलकालकूटहलाहलाः' इत्यमरः । ऊष्मणा उष्णांशेन क्वथितात्पक्वीकृतात्, उदधेस्समुद्रादुत्पतन्तः उत्पतनं कुर्वन्तः, पयसां क्षीराणां कणाः अणवः यत्र यत्र वृक्षादिषु निपेतुः तत्र तत्र प्रदेशेषु पर्वता व्यदीर्यन्त विदारिता बभूवुः । पादपा प्रजज्वलुः ज्वलिता बभूवुः । पशुपक्षिणो विनेशुः नाशं प्रापुरित्यर्थः । प्रागेव मन्दरपातावसर एव सागरचराणि समुद्रचारीणि यादांसि जलजन्तवः विनेशुरित्यन्वयः ॥ निस्संङ्ख्येति ॥ ततो निस्सङ्ख्यानि स्फुरितानि । भावे क्तः । स्फुरणानि येषां तथाविधा ये स्फुलिङ्गाः अग्निकणाः तैर्जटिलः व्याप्तः उत्सङ्गो यस्य स तथाभूतः यो ज्वलत्पावक इन्धाग्निः तस्य ये ज्वालानां भङ्गाश्शकलानि विटङ्कानीवेत्युपमितसमासः । 'कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम्’ इत्यमरः ।
तैस्सङ्कलितः व्याप्तः ये धूमानां स्तोमाः तैः भीमः । अथवा तद्वद्भीमः भयङ्करः क्रुध्यतः क्रोधविशिष्टस्य कालस्य मृत्योर्यद्विवृत्तं विवृत्तं च तद्वक्त्रकुहरं मुखबिलं चेति कर्मधारय समासः । तेन उन्मुक्ताः कृता येऽट्टहासाः तैरुद्भटा दुस्सहाः ये स्फाङ्कारध्वनयः तैर्भीषणः तद्वद्भीषणः भयंकरः अत एव अद्भुतः आश्चर्यकरः अननुभूतपूर्वत्वादिति भावः । कोऽप्यनिर्वाच्यः मारुतो वायुः प्रववृते प्रववौ ॥ स इति ॥
सः कालकूटः निर्जिहानः निर्गच्छन्नेव दिशः तर्जयन् भीषयन्, जगर्ज गर्जनं
 
[^१] 'स्फाङ्कारध्वनिः' इति व्याख्यापाठः ।