This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
1. तद्नु निर्गमिष्यतः कालकूटस्योष्मणा कथितादुदधेरुत्पतन्तः
पयःकणा यत्र यत्र निपेतुस्तत्र तत्र पर्वता व्यदीर्यन्त, पादपाः प्रज्ज्वलः,
पशुपक्षिणो विनेशुः, प्रांगेव सागरचराणि यादांसि ।
निस्सङ्ख्यस्फुरितस्फुलिङ्गजटिलोत्सङ्गज्वलत्पावक-
ज्वालाभङ्ङ्गविटङ्कसङ्कलितधूमस्तोमभीमस्ततः ।
क्रुध्यत्काल विवृत्तवक्त्र कुहरोन्मुक्ताट्टहासोद्भट -
 
'स्फूत्कार ध्वनिभीषणः प्रववृते कोऽप्यद्भुतो मारुतः ॥ ६ ॥
स निर्जिहान एव यज्जगर्ज तर्जयन् दिशो
- बभर्ज यच्च दुर्जयो मजर्जरं पुनर्जगत् ।
 
241
 
20
 
ध्
 
मृत्योर्यमस्य मुखबिलमिति वदनद्वारमित्यर्थः । प्राप्तं प्रविष्टभिवासीत् अभवत् ।
तदन्विति ॥ निर्गमिष्यत आविर्भविष्यतः कालकूटस्य विषस्य । 'पुंसि क्लीबे च
काकोलकालकूटहलाहलाः' इत्यमरः । ऊष्मणा उष्णांशेन कथितात्पक्कीकृतात्, उदधे-
समुद्रादुत्पतन्तः उत्पतनं कुर्वन्तः, पयसां क्षीराणां कणाः अणवः यत्र यत्र वृक्षादिषु
निपेतुः तत्र तत्र प्रदेशेषु पर्वता व्यदीर्यन्त विदारिता बभूवुः । पादपा प्रजज्वलुः
ज्वलिता बभूवुः । पशुपक्षिणो विनेशुः नाश प्रापुरित्यर्थः । प्रागेव मन्दरपा -
- ताबसर एव सागरचराणि समुद्रचारीणि यादांसि जलजन्तवः विनेशुरित्यन्वयः
॥ निस्संङ्ख्येति ॥ ततो निसङ्ख्यानि स्फुरितानि । भावे क्तः । स्फुरणानि
येषां तथा विधा ये स्फुलिङ्गा: अभिकणाः तैर्जटिल: व्याप्तः उत्सङ्गो यस्य स
तथाभूत: यो ज्वलत्पावक इन्धामिः तस्य ये ज्वालानां भङ्गारशकलानि विटङ्कानी-
वेत्युपमितसमासः । 'कपोतपालिकायां तु टिक पुनपुंसकम् इत्यमरः ।
तैस्सेकलितः· व्यांप्तः ये घूमानां स्तोमाः तैः भीमः । अथवा तद्वद्गीमः भयङ्करः
क्रुष्यतः क्रोषविशिष्टस्य कालस्य मृत्योर्यद्विवृत्तं विवृत्तं च तद्वक्त्रकुहरं मुखबिलं चेति
कर्मधारय समासः । तेन उन्मुक्ताः कृता येऽट्टहासाः तैरुद्रटा दुस्सहाः ये स्फाङ्का-
रध्वनय: तभीषणः तद्वद्भीषणः भयंकरः अत एव अद्भुत आश्चर्यकर: अननुभूत-
पूर्वत्वादिति भावः। कोऽप्यनिर्वाच्यः मारुतो वायुः प्रववृते प्रवौ ॥ स इति ॥
सः कालकूट: निजिहानः 'निर्गच्छन्नेव दिशः तर्जयन् भीषयन्', जगर्ज गर्जनं
'स्फाकारध्वनिः' इति व्याख्यापाठः ।
 
1.