2023-08-17 11:15:46 by Bharadwajraki
This page has been fully proofread twice.
कम्पसम्पन्नचलनसुमेरुशिखरस्थसुरराजनगरप्रासाददीपिका इव परिपेतुरभितोऽपि तारकाः ।
उद्यन्निर्घातघोषप्रतिभयमुदयद्धूमकेतूपकेतु-
क्रन्दद्दिक्पालगन्धद्विपमुदधिपतत्तुङ्गशैलाग्रशृङ्गम् ।
उड्डीनश्येनकङ्कप्रकरमुपचितध्वान्तमुद्धान्तवातं
प्राप्तं मृत्योरकस्मादिव[^१] वदनबिलं विश्वमासीत्तदानीम् ॥ ५॥
[commentary]
द्वीपाः कुशद्वीपादयः, तैस्साहिता सपर्वतवनद्वीपा सा च सा वसुमती चेति कर्मधारयः । 'स्त्रियाः पुंवत्' (६.३.३४) इत्यादिना पुंवद्भावः । तस्याः कम्पेन चलनेन सम्पन्नानि सम्प्राप्तानि चलनानि चञ्चलानि यत्सुमेरोशिशखराणि तत्स्थं यत् सुरराजनगरमिन्द्रपुरं तत्रस्था ये प्रासादाः भूभुजां देवानां सदनानि । 'प्रासादो देवभूभुजाम् इत्यमरः । तेषां दीपिका दीपा इव तारका नक्षत्राणि निपेतुः । नक्षत्रपातादीनामुत्पातत्वम् आश्वलायनपरिशिष्टे शान्तिप्रकरणे चोक्तम् । तथाहि -- 'परितस्तारका निपतन्ति, गवां शृङ्गेषु धूमो जायते, गोस्तनेषु रुधिरं स्रवति, केतुरुत्तिष्ठेत्, उल्कालताः पतन्ति, रात्राविन्द्रधनुर्दृश्यते' इति ॥ उद्यदिति ॥ उद्यन्तः उद्भवन्तः ये निर्घाताः अशनयः येषां घोषेण ध्वनिना, प्रतिभयं भयङ्करम् । 'भयङ्करं प्रतिभयम्' इत्यमरः । उदयन्त आविर्भवन्तः धूमकेतवः सवालतारकाः उपकेतवः तत्समीपवर्तिध्वजसदृशतारकाश्च यस्मिन् तत्तथाभूतं क्रन्दन्तः रुदन्तः, दिक्पालानां गन्धद्वीपाः मदगजा यस्मिन् तत्तथाभूतम् । उदधौ पतन्ति तुङ्गानि शैलाग्राणां शृङ्गाणि
यस्मिन् तत्तथाभूतम् । तथोक्तम् -- आश्वलायनपरिशिष्टे 'अथ यदास्य मानुषदुःखं भवति पर्वताः स्फुटन्ति ते पतन्त्याकाशादुन्मूलन्ति तरवश्चतुष्पादं पञ्चपादं भवन्ति इति । उड्डीनः उड्डीनगतिं प्राप्तः श्येनानां पक्षिविशेषाणां कङ्कानां गृध्रादीनां च प्रकरस्समूहो यस्मिन् तत्तथाभूतम् । तदुक्तं तत्रैव 'वाताः प्रतिकूला वान्ति, कङ्ककाकगृध्रा वोपरि पांसूनावेष्टन्ते, शशका ग्रामं प्रविशेयुर्मेधाश्च रुधिराणि
प्रवर्षन्ति, द्रुमाश्चोद्गिरन्त्याकाशे गन्धर्वनगराणि दृश्यन्ते' इति । उपचितमभिवृद्धं ध्वान्तमन्धकारं यस्मिन् तत्तथाभूतम् । उद्वान्ता उद्गीर्णा वाताः पवनाः यस्मिन्तत्तथाभूतं विश्वमशेषं जगत् । 'विश्वमशेषं कृत्स्रं समस्तनिखिलाखिलानि निश्शेषम्' इत्यमरः । तदानीं विषोत्पत्तेः पूर्वकाले अकस्मादज्ञातनिमित्तादित्यर्थः ।
[^१] अकस्मात्-आयुषः अन्तकालं विनापि, मृत्योः पाशबन्धं विनापि समस्तं जगत्भृमृत्योर्वदनबिलं स्वयं प्रविष्टमिवासीत् इत्यर्थः । उत्प्रेक्षेयम् ॥

[^१] अकस्मात्-आयुषः अन्तकालं विनापि, मृत्योः पाशबन्धं विनापि समस्तं जगत्