This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
२७५
 
कम्पसम्पन्नचलनसुमेरुशिखरस्थसुरराजनगरप्रासाददीपिका इव परिपेतु-
-
रभितोऽपि तारकाः ।

 
उद्यन्निर्घातघोषप्रतिभयमुदयद्धूमकेतूपकेतु-

क्रन्दद्दिक्यापालगन्धद्विपमुदधिपतत्तुङ्ग शैलाग्रशृङ्गम् ।

उड्डीनश्येनकङ्कप्रकरमुपचितध्वान्तमुद्धान्तवातं
 
द्वीपा:
 

प्राप्तं मृत्योरकस्मादिव[^१] वदनबिलं विश्वमासीत्तदानीम् ॥ ५॥

 
[commentary]
 
द्वीपाः
कुशद्वीपादयः, तैस्साहिता सपर्वतवनद्वीपा सा च सा वसुमती चेति कर्मधा-
रयः । 'स्त्रियाः पुंवत्' (6-3-34६.३.३४) इत्यादिना पुंवद्भावः । तस्याः कम्पेन चलनेन
सम्पन्नानि सम्प्राप्तानि चलनानि चञ्चलानि यत्सुमेरोशिशखराणि तत्स्थं यत् सुरराज -
नगरमिन्द्रपुरं तत्रस्था ये प्रासादाः भूभुजां देवानां सदनानि । 'प्रासादो देवभूभुजाम्
इत्यमरः । तेषां दीपिका दीपा इव तारका नक्षत्राणि निपेतुः । नक्षत्रपातादीना-
मुत्पातत्वम् आश्वलायनपरिशिष्टे शान्तिप्रकरणे चोक्तम् । तथाहि -- 'परित -
स्तारका निपतन्ति, गवां शृङ्गेषु धूमो जायते, गोस्तनेषु रुधिरं स्रवति, केतुरुत्तिष्ठेत्,
उल्कालताः पतन्ति, रात्रांराविन्द्रधनुर्दृश्यते' इति ॥ उद्यदिति ॥ उद्यन्तः उद्भवन्तः
ध्
ये निर्धाघाताः अशेनयः येषां घोषेण ध्वनिना, प्रतिभयं भयङ्करम् । 'भयङ्करं प्रतिभयम्'
इत्यमरः । उदयन्त आविर्भवन्तः धूमकेतवः सवालतारकाः उपकेतवः तत्समीप-
वर्तिध्वजसदृशतारकाश्च यस्मिन् तत्तथाभूतं क्रन्दन्तः रुदन्त:तः, दिकूक्पालानां गन्ध-
द्वीपाः मदगजा यस्मिन् तत्तथाभूतम् । उदघौधौ पतन्ति तुङ्गानि शैलाप्ग्राणां शृङ्गाणि

यस्मिन् तत्तथाभूतम् । तथोक्तम् -- आश्वलायनपरिशिष्टे 'अथ यदास्य मानुष-
दुःखं भवति पर्वताः स्फुटन्ति ते पतन्त्याकाशादुन्मूलन्ति तरवश्चतुष्पादं पञ्चपादं
भवन्ति इति । उड्डीन:नः उड्डीनगतितिं प्राप्तः श्येनानां पक्षिविशेषाणां कङ्कानां गृधा-
ध्रादीनां च प्रकरस्समूहो यस्मिन् तत्तथाभूतम् । तदुक्तं तत्रैव 'वाता:ताः प्रतिकूला
बा
वान्ति, कङ्ककाकगृधाध्रा वोपरि पांसूनावेष्टन्ते, शशका ग्रामं प्रविशेयुर्मेषाधाश्च रुधिराणि

प्रवर्षन्ति, द्रुमाधोश्चोद्गिरन्त्याकाशे गन्धर्वनगराणि दृश्यन्ते' इति । उपचितमभिवृद्धं
ध्वान्तमन्धकारं यस्मिन् तत्तथाभूतम् । उद्वान्ता उद्गीर्णा वाताः पवनाः यस्मिन्
तत्तथाभूतं विश्वमशेषं जगत् । 'विश्वमशेषं कृत्स्रं समस्तनिखिलाखिलानि
निश्शेषम्' इत्यमरः । तदानीं विषोत्पत्तेः पूर्वकाले अकस्मादज्ञातनिमित्तादित्यर्थः ।
 
1.

 
[^१]
अकस्मात्-आयुष:षः अन्तकालं विनापि, मृत्योः पाशबन्धं विनापि समस्तं जगत्
मृ
भृत्योर्वदनबिलं स्वयं प्रविष्मिवासीत् इत्यर्थः । उत्प्रेक्षेयम् ॥