This page has not been fully proofread.

तुरीयाश्वासः
 
२७५
 
कम्पसम्पन्नचलनसुमेरुशिखरस्थसुरराजनगरप्रासाददीपिका इव परिपेतु-
-रभितोऽपि तारकाः ।
उद्यन्निर्घातघोषप्रतिभयमुदयधूमकेतूपकेतु-
क्रन्दद्दिक्यालगन्धद्विपमुदधिपतत्तुङ्ग शैलाग्रशृङ्गम् ।
उड्डीनश्येनकङ्कप्रकरमुपचितध्वान्तमुद्धान्तवातं
 
द्वीपा:
 
प्राप्तं मृत्योरकस्मादिव वदनबिलं विश्वमासीत्तदानीम् ॥ ५॥
कुशद्वीपादयः, तैस्साहिता सपर्वतवनद्वीपा सा च सा वसुमती चेति कर्मधा-
रयः । 'स्त्रियाः पुंवत्' (6-3-34) इत्यादिना पुंवद्भावः । तस्याः कम्पेन चलनेन
सम्पन्नानि सम्प्राप्तानि चलनानि चञ्चलानि यत्सुमेरोशिशखराणि तत्स्थं यत् सुरराज -
नगरमिन्द्रपुरं तत्रस्था ये प्रासादाः भूभुजां देवानां सदनानि । 'प्रासादो देवभूभुजाम्
इत्यमरः । तेषां दीपिका दीपा इव तारका नक्षत्राणि निपेतुः । नक्षत्रपातादीना-
मुत्पातत्वम् आश्वलायनपरिशिष्टे शान्तिप्रकरणे चोक्तम् । तथाहि –'परित -
स्तारका निपतन्ति, गवां शृङ्गेषु धूमो जायते, गोस्तनेषु रुधिरं स्रवति, केतुरुत्तिष्ठेत्,
उल्कालताः पतन्ति, रात्रांविन्द्रधनुर्दृश्यते' इति ॥ उद्यदिति ॥ उद्यन्तः उद्भवन्तः
ध्ये निर्धाताः अशेनयः येषां घोषेण ध्वनिना, प्रतिभयं भयङ्करम् । 'भयङ्करं प्रतिभयम्'
इत्यमरः । उदयन्त आविर्भवन्तः धूमकेतवः सवालतारकाः उपकेतवः तत्समीप-
वर्तिध्वजसदृशतारकाश्च यस्मिन् तत्तथाभूतं क्रन्दन्तः रुदन्त:, दिकूपालानां गन्ध-
द्वीपाः मदगजा यस्मिन् तत्तथाभूतम् । उदघौ पतन्ति तुङ्गानि शैलाप्राणां शृङ्गाणि
यस्मिन् तत्तथाभूतम् । तथोक्तम् – आश्वलायनपरिशिष्टे 'अथ यदास्य मानुष-
दुःखं भवति पर्वताः स्फुटन्ति ते पतन्त्याकाशादुन्मूलन्ति तरवश्चतुष्पादं पञ्चपादं
भवन्ति इति । उड्डीन: उड्डीनगति प्राप्तः श्येनानां पक्षिविशेषाणां कङ्कानां गृधा-
दीनां च प्रकरस्समूहो यस्मिन् तत्तथाभूतम् । तदुक्तं तत्रैव 'वाता: प्रतिकूला
बान्ति, कलकाकगृधा वोपरि पांसूनावेष्टन्ते, शशका ग्रामं प्रविशेयुर्मेषाश्च रुधिराणि
प्रवर्षन्ति, द्रुमाधोगिरन्त्याकाशे गन्धर्वनगराणि दृश्यन्ते' इति । उपचितमभिवृद्धं
ध्वान्तमन्धकारं यस्मिन् तत्तथाभूतम् । उद्वान्ता उद्गीर्णा वाताः पवनाः यस्मिन्
तत्तथाभूतं विश्वमशेषं जगत् । 'विश्वमशेषं कृत्स्रं समस्तनिखिलाखिलानि
निश्शेषम्' इत्यमरः । तदानीं विषोत्पत्तेः पूर्वकाले अकस्मादज्ञातनिमित्तादित्यर्थः ।
 
1. अकस्मात्-आयुष: अन्तकालं विनापि, मृत्योः पाशबन्धं विनापि समस्तं जगत्
मृत्योर्वदनबिलं स्वयं प्रविष्ठमिवासीत् इत्यर्थः । उत्प्रेक्षेयम् ॥