This page has been fully proofread twice.

किं चित्रं भ्रमति महर्षिसिद्धसङ्घे
मृद्भारे क्वचन महान् भ्रमोऽजनीति ॥ ४ ॥
 
अत्रान्तरे च समन्ततः प्रकीर्यमाणमन्दरशिखरकाननप्रसूनपरागपरिचयादिव धूसराणि ददृशिरे दिङ्मुखानि । परिस्फुटितनिष्ठ्यूताः फणामणय इव वासुकेः प्रतिसूर्या जजृम्भिरे । परितोऽपि आसन्नमकाण्डविप्लवं जगतामवेक्षितुमक्षमेण दयानिधिना महेश्वरेण दृशोर्निमीलनादिव प्रचकाशे पद्मबन्धुरिन्दुश्च नाकाशे । सपर्वतवनद्वीपवसुमती-
 
[commentary]
 
माधवे श्रीप्रिये स्वेनैव भुजाभ्यां भ्रमयति विघूर्णयति सति भ्रमं कलयति सति चेत्यर्थः । स शैलराजो मन्दरः भ्रमरस्य प्रतिकृतिः भ्रमरकः । 'इवे प्रतिकृतौ' (५.३.९६) इति कः । बालक्रीडनेको दारुविशेषः, भाषायां बम्बरं बुगरीति च प्रसिद्धः । तेन तुल्यं बभ्राम जुघूर्णे, भ्रान्तः आसीदिति चार्थः । महर्षिसिद्धसङ्घे भ्रमति भ्रमं प्राप्नुवति सति मृद्वारे घनीभूतमृत्तिकास्वरूपे क्वचन मन्दरे महान् भ्रमो
भ्रान्तिः विघूर्णनं चाजनीति किं चित्रम् । मायिनि वासुदेवे भ्रममुत्पादयति सति को वा भ्रमं न प्राप्नुयादिति भावः । अथ भाविहालाहलेन जगद्बाधासूचकारिष्टोत्पातान् वर्णयितुमारभते ॥ अत्रान्तर इत्यादिना ॥ अत्रान्तरे अस्मिन्नवसरे समन्ततश्च दिङ्मुखानि प्रकीर्यमाणा मन्दरशिखरकाननेषु यानि कुसुमानि तेषां ये परागा धूळयः तेषां परिचयात् सम्बन्धादिव धूसराणि ईषत्पाण्डुवर्णानि दहशिरे
दृष्टानीत्यर्थः । 'ईषत्पाण्डुस्तु धूसरः' इत्यमरः ॥ परीति ॥ परिस्फुटिता विदळिताश्च ते निष्ठ्यूता वान्ताः, स्नातानुलिप्तवत्समासः । वासुकेः फणामणय इव प्रतिकूलाः सूर्याः प्रतिसूर्या जजृम्भिरे उद्बभूवुरित्यर्थः ॥ परीति ॥ जगतां लोकानां परितोऽपि आसन्नं सम्प्राप्तं अकाण्डो अकालः, तस्मिन् विप्लवं उपद्रवं अवेक्षितुं द्रष्टुमक्षमेण असमर्थेन दयानिधिना महेश्वरेण दृशोर्दृष्ट्योर्निमीलनादिव मुकुळनादिव, आकाशे व्योम्नि, पद्मबन्धुरिन्दुश्च सूर्यश्चन्द्रश्चेत्यर्थः । न चकाशे नैन्द्ध इत्यर्थः । कदाचित् प्रतिदिशं प्रतिसूर्या दृष्टाः कदाचित्प्रसिद्धसूर्योऽपि न दृष्ट इति भावः । अत्र सूर्यचन्द्रादर्शने भगवच्चक्षुर्निमीलनं न हेतुः, तथापि तस्यासिद्धस्य भगवतस्सूर्यचन्द्रनेत्रत्वबलात् तत्र हेतुत्वकथनादसिद्धविषयहेतूत्प्रेक्षालङ्कारः । 'उक्तानुक्तास्पदाद्या तु सिद्धासिद्धास्पदे परे’ इति लक्षणात् ॥ सपर्वतेति ॥ पर्वता महेन्द्रादिगिरयः वनानि चम्पकादीनि