This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
किं चित्रं भ्रमति महर्षिसिद्धसङ्गे
 
घे
मृद्धारे भारे क्वचन महान् भ्रमोऽजनीति ॥ ४ ॥

 
अत्रान्तरे च समन्ततः प्रकीर्यमाणमन्दर शिखरंकाननप्रसूनपराग-
परिचयादिव धूसराणि ददृशिरे दिङ्मुखानि । परिस्फुटितनिष्ठधूठ्यूताः
फणामणय इव वासुकेः प्रतिसूर्या जजृम्भिरे । परितोऽपि आसन्नम-
काण्डविप्लवं जगता मवेक्षितुमक्षमेण दयानिधिना महेश्वरेण दृशोर्निमी-
लनादिव प्रचकाशे पद्मबन्धुरिन्दुश्च नाकाशे । सपर्वतवनद्वीपवसुमती -

 
[commentary]
 
मावे श्रीप्रिये स्वेनैव भुजाभ्यां भ्रमयति विघूर्णयति सति भ्रमं कलयति सति
वे
चेत्यर्थः । स शैलराजो मंन्दर:रः भ्रमरस्य प्रतिकृतिः भ्रमरकः । 'इवे प्रतिकृतौ '
(5:3-96५.३.९६) इति क:प'कः । बालकीक्रीडनेको दारुविशेष:षः, भाषायां बम्बरं बुगरीति च
प्रसिद्धः । तेन तुल्य चश्यं बभ्राम जुघूर्णे, भ्रान्तः आसीदिति चार्थः । महर्षिसिद्धसङ्खे
घे भ्रमति भ्रमं प्राप्नुवति सति मृद्वारे घनीभूतमृत्तिकास्वरूपे क्वचन मन्दरे महान् भ्रमो

भ्रान्तिः विघूर्णनं चाजनीति किं चित्रम् । मायिनि वासुदेवे भ्रममुत्पादयति सति को
वा भ्रमं न प्राप्नुयादिति भावः । अथ भाविहालाहलेन जगद्वाघाबाधासूचकारिष्टो-
त्पातान् वर्णयितुमारभते ॥ अत्रान्तर इत्यादिना ॥ अत्रान्तरे अस्मिन्नवसरे
समन्ततश्च दिङ्मुखानि प्रकीर्यमाणा मन्दरशिखरकाननेषु यानि कुसुमानि तेषां ये
परागा धूळय:यः तेषां परिचयात् सम्बन्धादिव धूसराणि ईषत्पाण्डुवर्णानि दहशिरे

दृष्टानीत्यर्थ:थः । 'ईषत्पाण्डुस्तु धूसर : रः' इत्यमरः ॥ परीति ॥ परिस्फुटिता
विदळितांधताश्च ते निष्ठयठ्यूता वान्ताः, खास्नातानुलिप्तवत्समासः । वासुके:केः फणामणय इव
प्रतिकूला:लाः सूर्याः प्रतिसूर्या जजृम्भिरे उद्भूवुरित्यर्थः ॥ परीति ॥ जगतां
लोकानां परितोऽपि आसन्नं सम्प्राप्तं अकाण्डो अकाल:लः, तस्मिन् विप्लवं उपद्रवं
'
अवेक्षितुं 'द्रष्टुमक्षमेण असमर्थेन दयानिघिधिना महेश्वरेण दृशोर्दृष्ट चोट्योर्निमीलनादिव
मुकुळनादिव, आकाशे व्योग्म्नि, पद्मबन्धुरिन्दुश्च सूर्यश्चन्द्रश्चेत्यर्थः ।
चका
न चकाशे नैन्द्ध इत्यर्थः + कदाचित् प्रतिदिशं प्रतिसूर्या दृष्टाः कदाचित्
प्रसिद्धसूर्योऽपि न दृष्ट इति भावः । अत्र सूर्यचन्द्रादर्शने भगवच्चक्षु-
र्निमीलनं न हेतुः, तथापि तस्यासिद्धस्य भगवतस्सूर्यचन्द्रनेत्रत्वबलात् तत्र
हेतुत्वकथनादसिद्धविषयहेतुतूत्प्रेक्षालङ्कारः । 'उक्तानुक्तास्पदाद्या तु सिद्धासिद्धास्पदे
परे)
परे’ इति लक्षणात् ॥ सपर्वतेति ॥ पर्वता महेन्द्रादिगिरयः वनानि चम्पकादीनि
 
",
 

 
9
 
.
 
3
 
.