2023-08-17 07:08:47 by Bharadwajraki
This page has been fully proofread twice.
अपि च ।
निःश्वसति भोगिभर्तरि निर्दग्धमहासुरैर्विषज्वालैः ।
उच्छ्वसितममरवर्गैरुत्प्रेक्षितकार्यलाघवैरन्तः ॥ ३ ॥
मथ्नतामप्येवं महतोत्साहेन, तेषामपाङ्गयन् शनैश्शनैश्शक्तिह्रासम्, आप्याययन्
वासुकिमम्बरचरानपि स्वतेजसा, त्रिविक्रमः स्वयमपि मथितुमुपचक्रमे ।
स्वेनैव भ्रमयति माधवे भुजाभ्यां
बभ्राम भ्रमरकवत् स शैलराजः ।
[commentary]
इत्यमरः । भ्रमणेन यः श्रमः खेदः तेन पूर्वं जलधेः पीतं प्रभूतं अधिकं पयः क्षीरं मुखश्रोत्राक्षिनासादिभिः मुखादिद्वारैरित्यर्थः । पुनः स्रोतोभिरम्बुसरणव्याजैः उद्वमन् उद्गिरन्, सिद्धचारणमरुद्गन्धर्वविद्याधरैः देवयोनिविशेषैः । 'मरुतौ पवनामरौ’ इत्यमरः । अदृश्यत दृष्टः ॥ अपि चेति ॥ निर्दग्धाः भस्मीकृताः महासुराः यैस्तथाभूतैः विषज्वालैः । 'वह्नेर्द्वयोर्ज्वालकीलौ' इत्यमरः । भोगिभर्तरि वासुकौ निःश्वसति निःश्वासं कुर्वति सति, अतः मनसि उत्प्रेक्षितं तर्कितं कार्ये
भाविनि दैत्यतिरस्काररूपे साध्ये लाघवं यैस्ते बहूनामिदानीमेव नाशादिति भावः । तथाभूतैरमरवर्गैः इन्द्रादिभिः उच्छ्वसितं अभिवृद्धम् । उत्पूर्वात् 'श्वस वृद्धौ’ इति धातोर्भावे क्तः । तदुक्तं देवीभागवते 'वासुकेर्मुखनिःश्वासैर्दग्धा दैत्यास्तथापरे' । इति ॥ मथ्नतामिति ॥ एवं महताधिकेन उत्साहेन मथ्नतां
मथनं कुर्वतां तेषां देवासुराणां शनैश्शनैश्शक्तिह्रासं प्रति अपाङ्गयन् अपाङ्गं कुर्वन्, देवासुरशक्तिसङ्कोचं पश्यन्निति भावः । स्वतेजसा स्वीयदिव्यसामर्थ्येन वासुकिं अम्बरचरान् देवासुरानुभयानपि इत्यर्थः । आप्याययन् दिव्यबलदानेन प्रोत्साहयन् इत्यर्थः । त्रिविक्रमः श्रीहरिः स्वयमपि मथितुमुपचक्रमे उपक्रान्तवान् । तदुक्तं देवीभागवते -- 'ततस्संमथ्यमानेऽब्धौ देवैर्दैत्यैश्च सत्वरम् । शिवाज्ञया भुवं भित्त्वा मन्दरस्सुतलं गतः ॥ देवानां कार्यसिद्ध्यर्थं देवीतेजोपबृंहितः ।
मन्दराधारभूतोऽसौ कूर्मरूपी दधार तम् ॥ स्वस्वरूपेण देवानां मध्ये चक्रगदाधरः । वासुकेः पुच्छमाकर्षन् देवान् स त्वरयद्धरिः ॥ उपर्याक्रान्तवान् शैलं विष्वग्रूपेण तेजसा । देवांश्च नागराजानमुपबृंहितवान् प्रभुः ॥ भ्रमतो मन्दरस्याद्रेः ऊर्ध्वदेशे महेश्वरः । सगणस्त्ववसद्देव्या देवानां हितकाम्यया ॥ इति ॥ स्वेनेति ॥