This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
अपि च ।
 
-2013
 

 
निःश्वसति भोगिभर्तरि निर्दग्धमहासुरैविंर्विषज्वालैः ।

उच्छ्वसितममरवर्गैरुत्प्रेक्षित कार्यलाघवैरन्तः ॥ ३ ॥
मध्

 
मथ्
नतामप्येवं महतोत्साहेन, तेषामपाङ्गयन् शनैश्शनैश्शक्ति-
ह्रासम्, आप्याययन्
वासुकिमम्बरचरानपि स्वतेजसा, त्रिविक्रमः
स्वयमपि मथितुमुपचक्रमे
 
हासम्
 
स्खे

 
स्वे
नैव भ्रमयति माधवे भुजाभ्यां
 
२६९
 

बभ्राम भ्रमरकवत् स शैलराजः ।
 

 
[commentary]
 
इत्यमरः । भ्रमणेन यः श्रमः खेदः तेन पूर्वं जलघे:धेः पीतं प्रभूतं अधिकं
पयः क्षीरं मुखश्रोत्राक्षिनासादिभि:भिः मुखादिद्वारैरित्यर्थः । पुनः स्रोतोभिरम्बुसरण-
व्याजै:जैः उद्वमन् उद्गिरन्, सिद्धचारणमरुद्गन्धर्व विद्याधरैः देवयोनिविशेषैः । 'मरुतौ
पवनाम्ररौ ? इत्यमरः । अदृश्यत दृष्टः ॥ अपि चेति ॥ निर्दग्धाः भस्मीकृताः
महासुराः यैस्तथाभूतैः विषज्वालैः । 'वहेह्नेर्द्वयोर्ज्वालकीलौ' इत्यमरः । भोगिभर्तरि
वासुकौ निःश्वसति निःश्वासं कुर्वति सति, अतः मनसि उत्प्रेक्षितं तर्कितं कार्ये

भाविनि दैत्यतिरस्काररूपे साध्ये लाघवं यैस्ते बहूनामिदानीमेव नाशादिति
भावः तथाभूतैरमरवर्गैः इन्द्रादिभिः उच्छ्वसितं अभिवृद्धम् । उत्पूर्वात् 'श्वस
वृद्धौ इति धातोर्भावे क्तः । तदुक्तं देवीभागवते 'वासुकेर्मुखनि:निःश्वासैर्दग्धा
दैत्यास्तथापरे' । इति ॥ मध्थ्नतामिति ॥ एवं महताधिकेन उत्साहेन मध्थ्नतां

मथनं कुर्वतां तेषां देवासुराणां शनैश्शनैश्शक्तिहाह्रासं प्रति अपाङ्गयन् अपाङ्गं कुर्वन्
, देवासुरशक्तिसङ्कोचं पश्यन्निति भावः । स्वतेजसा स्वीयदिव्यसामर्थ्येन वासुकिं
अम्बरचरान् देवासुरानुभयानपि इत्यर्थः । आप्याययन् दिव्यबलदानेन प्रोत्साहयन्
इत्यर्थः । ' त्रिविक्रमः श्रीहरिः स्वयमपि मथितुमुपचक्रमे उपक्रान्तवान् । तदुक्तं
देवीभागवते --- 'ततस्संमथ्यमानेऽब्धौ देवैर्दैत्यैश्च सत्वरम् । शिवाज्ञया भुवं
भित्त्वा: मन्दरस्सुतलं गतः ॥ देवानां कार्यसिद्ध्यर्थं देवीतेजोपबृंहितः ।

मन्दसघाराधारभूतोऽसौ कूर्मरूपी दधार तम् ॥ स्वस्वरूपेण देवानां मध्ये चक्रगदाधरः ।
वासुकेः पुच्छमाकर्षन् देवान् स त्वरयद्धरिः ॥ उपर्याक्रान्तवान् शैलं विष्वग्रूपेण
तेजसा । देवांश्च नागराजानमुपबृंहितवान् प्रभुः ॥ भ्रमतो मन्दरस्याद्रेः ऊर्ध्व-
देशे महेश्वरः । सगणस्त्ववसद्देव्या देवानां हितकाम्यया ॥ इति ॥ स्वेनेति ॥