2023-06-05 16:40:29 by ambuda-bot
This page has not been fully proofread.
तुरीयाश्वासः
अपि च ।
-2013
निःश्वसति भोगिभर्तरि निर्दग्धमहासुरैविंषज्वालैः ।
उच्छ्वसितममरवर्गैरुत्प्रेक्षित कार्यलाघवैरन्तः ॥ ३ ॥
मध्नतामप्येवं महतोत्साहेन, तेषामपाङ्गयन् शनैश्शनैश्शक्ति-
आप्याययन् वासुकिमम्बरचरानपि स्वतेजसा, त्रिविक्रमः
स्वयमपि मथितुमुपचक्रमे
हासम्
स्खेनैव भ्रमयति माधवे भुजाभ्यां
२६९
बभ्राम भ्रमरकवत् स शैलराजः ।
इत्यमरः । भ्रमणेन यः श्रमः खेदः तेन पूर्व जलघे: पीतं प्रभूतं अधिकं
पयः क्षीरं मुखश्रोत्राक्षिनासादिभि: मुखादिद्वारैरित्यर्थः । पुनः स्रोतोभिरम्बुसरण-
व्याजै: उद्वमन् उद्गिरन्, सिद्धचारणमरुद्गन्धर्व विद्याधरैः देवयोनिविशेषैः । 'मरुतौ
पवनाम्ररौ ? इत्यमरः । अदृश्यत दृष्टः ॥ अपि चेति ॥ निर्दग्धाः भस्मीकृताः
महासुराः यैस्तथाभूतैः विषज्वालैः । 'वहेद्वयोर्ज्वालकीलौ' इत्यमरः । भोगिभर्तरि
वासुकौ निःश्वसति निःश्वासं कुर्वति सति, अतः मनसि उत्प्रेक्षितं तर्कितं कार्ये
भाविनि दैत्यतिरस्काररूपे साध्ये लाघवं यैस्ते बहूनामिदानीमेव नाशादिति
भावः तथाभूतैरमरवर्गैः इन्द्रादिभिः उच्छ्वसितं अभिवृद्धम् । उत्पूर्वात् 'श्वस
वृद्धौ इति धातोर्भावे क्तः । तदुक्तं देवीभागवते 'वासुकेर्मुखनि:श्वासैर्दग्धा
दैत्यास्तथापरे' । इति ॥ मध्नतामिति ॥ एवं महताधिकेन उत्साहेन मध्नतां
मथनं कुर्वतां तेषां देवासुराणां शनैश्शनैश्शक्तिहासं प्रति अपाङ्गयन् अपाङ्ग कुर्वन्
देवासुरशक्तिसङ्कोच पश्यन्निति भावः । स्वतेजसा स्वीयदिव्यसामर्थ्येन वासुकिं
अम्बरचरान् देवासुरानुभयानपि इत्यर्थः । आप्याययन् दिव्यबलदानेन प्रोत्साहयन्
इत्यर्थः । ' त्रिविक्रमः श्रीहरिः स्वयमपि मथितुमुपचक्रमे उपक्रान्तवान् । तदुक्तं
देवीभागवते --- 'ततस्संमथ्यमानेऽब्धौ देवैदैत्यैश्च सत्वरम् । शिवाज्ञया भुवं
भित्त्वा: मन्दरस्सुतलं गतः ॥ देवानां कार्यसिद्धयर्थं देवीतेजोपबृंहितः ।
मन्दसघारभूतोऽसौ कूर्मरूपी दधार तम् ॥ स्वस्वरूपेण देवानां मध्ये चक्रगदाधरः ।
वासुकेः पुच्छमाकर्षन् देवान् स त्वरयद्धरिः ॥ उपर्याक्रान्तवान् शैलं विष्वग्रूपेण
तेजसा । देवांश्च नागराजानमुपबृंहितवान् प्रभुः ॥ भ्रमतो मन्दरस्याद्रेः ऊर्ध्व-
देशे महेश्वरः । सगणस्त्ववसद्देव्या देवानां हितकाम्यया ॥ इति ॥ स्वेनेति ॥