This page has been fully proofread twice.

काव्यस्य, सर्वतो निर्वृतैरपि महर्षिभिस्समुत्सृज्य समाधिमालक्ष्यमाणमपक्ष्मपरिक्षेमम्, अनुल्लिखितार्थलाभसमुल्लासेन किञ्चिदप्यगणितशरीरक्केशमायस्यद्भिरपि सुरासुरैरालोकमानः सागरमथनसंरम्भमाननन्द[^१] गोविन्दः ।
 
निर्मन्थश्लथसन्धिबन्धनिखिलोद्देशक्षरन्निर्झरः
शैलोऽदृश्यत सिद्धचारणमरुद्गन्धर्वविद्याधरैः ।
अश्रान्तभ्रमणश्रमेण जलधेः पीतं प्रभूतं पयः
स्रोतोभिः पुनरुद्वमन्निव मुखश्रोत्राक्षिनासादिभिः ॥ २ ॥
 
[commentary]
 
भावः । वाचस्पतेस्सुराचार्यस्यापि अपर्याप्तं अपरिसमाप्तं यथा तथा उपन्यसितुं निरूपयितुमशक्यम् । काव्यस्य शुक्रस्य काव्यानां सगुणालङ्कृतिगद्यपद्यानां शतेन अनेकेनापि वर्णयितु वर्णनं कर्तुमशक्यम् । सर्वतः सर्वप्रकारैः, निर्वृतैः सुखितैः विरतैरपि वेत्यर्थः । महर्षिभिः सनकादिभिः समाधिं निर्विकल्पसमाधिं उत्सृज्य विसृज्य, अविद्यमानः पक्ष्मणां निमेषाणां परिक्षेपः चलनं यस्मिन् कर्मणि तत्तथा आलक्ष्यमाणम् आलोक्यमानम् अनुल्लिखितः वाङ्मनसाभ्यामसम्भावितः योऽर्थलाभः अमृतरूपप्रयोजनप्राप्तिः तस्मिन् समुल्लासेनादरेणेति तात्पर्यार्थः । आयस्यद्भिरायासं प्राप्नुवद्भिरपि सुरासुरैः किञ्चिदगणितः अनाकलितः शरीराणां क्लेशो व्यस्मिन् स तथाभूतम् । सागरमथने संरम्भमुद्योगं गोविन्दः आलोकमानः पश्यन् सन् आननन्द आनन्द प्रापेत्यर्थः । तथा चोक्तं देवीभागवते 'समन्तात्तत्र दैत्यास्ते ज्येष्ठभागजिघृक्षया । मन्दरं चालयन्तोऽद्रिं नष्टाः केचिन्महावटे ॥ वासुकेर्मुखनिःश्वार्सेसैर्दग्धा दैत्यास्तथापरे । हताश्च शेषदैत्याश्च देवा विष्ण्वादयो नृप ॥ पुच्छं गृहीत्वा योक्त्रस्य वासुकेः पृष्ठतः स्थिताः । मथितुं सम्प्रवृत्तास्ते सुधार्थं क्षीरसागरम् ॥’ इति ॥ निर्मन्थेति ॥ निर्मन्थेन मन्थनेन श्लथाः विगळिताः सन्धयः सन्धिस्थानानि तेषां बन्धः ग्रन्थयो यस्य स तथाभूतः यो
निखिलोद्देशः सर्वप्रदेशस्तस्मात् क्षरन्तः प्रस्रवन्तः, निर्झराः प्रवाहाः, यस्य स तथाभूताः, शैलो मन्दरः अश्रान्तं सन्ततम् । 'सततानारताश्रान्तसन्तत'
 
[^१] सागरमथनसंरम्भः आलोक्यमानः गोविन्दस्याप्यानन्दमावहत् किमु वक्तव्यमन्येषाम् ॥