This page has not been fully proofread.

नीलकण्ठ विजये व्याख्याने
 
काव्यस्य, सर्वतो निर्वृतैरपि महर्षिभिस्समुत्सृज्य समाधिमालक्ष्यमाणम-
पक्ष्मपरिक्षेमम्, "अनुल्लिखितार्थलाभसमुल्लासेन किञ्चिदप्यगणितशरीरक्के-
शमायस्यद्भिरपि सुरासुरैसलोकमानः सागरमथनसंरम्भ माननन्द'
गोविन्दः ।
 
÷
 
*
 
"निर्मन्थलथसन्धिबन्धनिखिलोद्देशक्षरन्निर्झरः
शैलोऽदृश्यत सिद्धचारणमरुद्गन्धर्वविद्याधरैः ।
ॐ अश्रान्त भ्रमणश्रमेण जलधेः पीतं प्रभूतं पयः
 
स्रोतोभिः पुनरुद्रमन्निव मुखश्रोत्राक्षिनासादिभिः ॥ २ ॥
 
भाव: । वाचस्पतेस्सुराचार्यस्यापि अपर्याप्त अपरिसमाप्तं यथा तथा उपन्य सितुं
निरूपयितुमशक्यम् - 1 काव्यस्य शुक्रस्य काव्यानां सगुणालङ्कृतिगद्यपद्यानां
शतेन अनेकेनापि वर्णयितु वर्णनं कर्तुमशक्यम् । सर्वतः सर्वप्रकारैः, निर्वृतैः सुखितैः
विरतैरपि वेत्यर्थः । महर्षिभिः सनकादिभिः समाधिं निर्विकल्पसमाधि उत्सृज्य
विसृज्य, अविद्यमान पक्ष्मणां निमेषाणां परिक्षेप: चलनं यस्मिन् कर्मणि तत्त-
था आलक्ष्यमाणम् आलोक्यमानम् अनुल्लिखित: वाङ्मनसाभ्यामसम्भावितः योऽर्थ-
लाभ: अमृतरूप प्रयोजन प्राप्ति तस्मिन् समुल्लासेनादरेणेति तात्पर्यार्थः ।
आयस्यद्भिरायास प्राप्नुवद्भिरफि सुरासुरैः किञ्चिदगणितः अनाकलित: शरीराणां
क्लेशो व्यस्मिन् स तथाभूतम् । सागरमथने संरम्भमुद्योगं गोविन्द: आलोकमान:
पश्यन् सन् आननन्दा आनन्द प्रापेत्यर्थः । तथा चोक्तं देवीभागवते 'सम-
तात्तत्र दैत्यास्ते ज्येष्ठभागजिघृक्षया । मन्दरं चालयन्तोऽद्रिं नष्टाः केचिन्महा-
वटे ॥ वासुकेर्मुखनिःश्वार्सेर्दग्धा दैत्यास्तथापरे । हताश्च शेषदैत्याश्च देवा
विष्ण्वांदयो नृप ॥ पुच्छं गृहीत्वा योक्त्रस्य वासुके: पृष्ठतः स्थिताः । मथितु सम्प्र-
वृत्तास्ते सुधार्थ क्षीरसागरम् ॥१ इति ॥ निर्मन्थेति ॥ निर्मन्थेन मन्थनेन श्वथाः
विगळिता: सन्धयः सन्धिस्थानानि तेषां बन्ध: ग्रन्थयो यस्य स तथाभूतः यो
निखिलद्देशः सर्वप्रदेशस्तस्मात् क्षरन्तः प्रतवन्तः, निर्झरा: प्रवाहाः, यस्य स
तथाभूताः, शैलो मन्दरः अश्रान्तं सन्ततम् । 'सततानारताश्रान्तसन्तत'
 
+
 
12
 
रु
 
4
 
31 1 सागरमथनसंरम्भ: आलोक्यमानः गोविन्दस्याप्यानन्दमावहत् किमु वक्तव्य-
मन्येषाम् ॥