2023-06-05 16:40:29 by ambuda-bot
This page has not been fully proofread.
तुरीयाश्वासः
२६७
पदुरापलालाप्रवर्तितहालाहलबीजावापम्, आवसथपरिभ्रमणसमुद्विग्रका-
त्यायनी परिरम्भसम्भ्रमान न्दितचन्द्रशेखरतया प्रतिक्षणमुपर्युपचीयमान-
महातपस्सम्भारम्, आरसातल परिभ्रमदर्णवावर्तगर्तसन्दृश्य मानफणिलोक-
वृत्तान्ततया प्रशान्तगृहोदन्तविचारसुस्थपरिजनोरगपरिचरणसम्भृता-
नन्ददन्दशूकेश्वरम्, अद्भुत मवलोकयताम्, अद्भुततरमद्यापि शृण्वताम्,
अपर्याप्तमुपन्यसितुं वाचस्पतेरपि, अशक्यं काव्यशतेनापि वर्णयितुं
विषानल: तस्य ज्वालास्तासां कलापेन समूहेन । 'कलापो भूषणे बर्हे तूणीरे
संहतावपि' इत्यमरः । दुरापा दुष्प्रापा, दुस्सहेति यावत् । या लाला तालु-
निर्गतजलम्, 'सृणिका स्यन्दिनी लाला' इत्यमरः । तया प्रवर्तितः कलितः हाला-
हलाख्यस्य विषस्य बीजानामावाप: आवपनं यस्मिन् स तथाभूतम् । आवसथस्य
आवासभूतमन्दरस्य परिभ्रमणेन आवर्तनेन उद्विग्ना भीता । स्त्रीस्वभावादिति भावः ।
या कात्यायनी गौरी तस्याः परिरम्भे आलिङ्गने यस्संरम्भ: उपक्रम रभ
रामस्य रामस्यमुपक्रमः, इति धातुपाठात् । तेन आनन्दितस्सन्तोषम् गमित-
श्चन्द्रशेखर: यस्मिन् सः तस्य भावस्तत्ता तया । तदुक्तं देवीभागवते 'भ्रमतो
मन्दस्यांद्रेर्ध्वदेशे महेश्वरः । सगणस्त्ववसद्देव्या देवानां हितकाम्यया ॥' इति ।
प्रतिक्षणम्, वीप्सायामव्ययीभावः । उपरि मन्दरोर्ध्वदेशे उपचीयमानो ऽभिवर्धमानः,
महान् तपसः - संभारोऽतिशयो यस्मिन् स तथाभूतं परमेश्वरप्रीणनादिति
भावः । आरसातलं पाताळमभिव्याप्य परिभ्रमन्तो विघूर्णमानाः ये अर्णवस्य
उदघे: आवर्ता: अम्भोभ्रमा तेषां ये गर्ताः तैस्सन्दृश्यमानः फणिलोकस्य नाग-
'लोकस्य वृत्तान्तो वार्ता यस्मिन् सः तस्य भावस्तत्ता तया प्रशान्तः अकलितः
यः गृहोदन्तस्यै सदनवृत्तान्तस्य विचारो विचारणा । 'वृत्तान्त उदन्तः स्यात्'
इत्यमरः । तेन सुस्था अवहिताः ये परिजनोरंगाः तक्षकादयः तैर्यत्परिचरणं सेवा
तेन सम्भृतानन्दः सम्पादितहर्ष, दन्तशूकानां सर्पाणाम्, ईश्वरो यस्मिन् स तथा-
भूत तत्कालमिति शेषः । अवलोकयतां पश्यताम् अद्भुतमाश्चर्यकरम् । शृण्वतां
श्रोतॄणामद्याप्यद्भुततरम् अत्यन्ताश्चर्यकरम् । तदानीं प्राकल्पभवमन्थनादिद्रष्टृणां
'बहूनां सत्त्वादाश्चर्यकरत्वम् । अधुना कस्याप्यत्राभावाददृष्टपूर्वत्वादद्भुततरत्वमिति
"
1. मन्थनकालेऽपि मन्दरोर्ध्वभाग एव कात्यायनीसमेतश्चन्द्रशेखरः, वसतीति
तिव्यवासस्थलं परमेश्वरस्य मन्दराद्रिरिति भावः ॥