2023-08-17 06:14:48 by Bharadwajraki
This page has been fully proofread twice.
संसूचितहालाहलोपप्लवम् उपत्प्लवमानसागरदुग्धशीकरास्वादसु[^१]हितभुजगराजभोगप्रसारण- वेगपतदुत्पतत्सुरासुरस्तोमपर्यवस्थापनव्यग्रपद्मसम्भवम्, उभयपार्श्वसङ्घटितशिलासङ्घसङ्घर्षणसुखनिर्मुच्यमानचिरपरिणामनिर्मलवासुकिनिर्मोकशकल- परिधानसञ्जिघृक्षानुधावत्प्रमथयूथनिनादमेदुरम्, अत्यायासपरिश्रान्तजरदुरगराजसमुद्वान्तपरुष- विषानलज्वालाकला-
[commentary]
समुद्भाविता तर्किता या अकाण्डः अकालः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । तस्मिन् सन्ध्या सन्ध्याकालः तया संसूचितः हालाहलोपप्लवो विषसम्बन्ध्युपद्रवः यस्मिन् स तथाभूतं उत्प्लवमानाः उत्प्लुतिं प्राप्नुवन्तो ये दुग्धकणाः क्षीरशीकरा तेषामासारः । आस्वादः इति पाठान्तरम् । धारासम्पातः, आघ्राणनं वा तेन सुहितः तृप्तो, यो भुजङ्गराजो वासुकिः, तस्य यो भोगः कायः । 'भोगत्स्सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । तस्य प्रसारणं दीर्घीकरणं तस्य वेगो जवः, तस्मिन् पतन्तः पतनं कुर्वन्तः उत्पतन्तः उत्तिष्ठन्तश्च ये सुरासुरास्तेषां स्तोमः समूहः, तस्य पर्यवस्थापनं मथनकर्मण्येव स्थापनं पलायनादिकं प्रतिषिध्येति भावः । तस्मिन् व्यग्रो जागरूकः
पद्मसम्भवो ब्रह्मा यस्मिन् स तथाभूतम् । उभौ च तौ पार्श्वो चेति कर्मधारयः । तयोः सङ्घटिताः सम्बद्धाः संयोजिता इति वाऽर्थः । ये शिलानां सङ्घाः तेषां सङ्घर्षणम् उल्लेखनं, तेन सुखम् अनायासं निर्मुच्यमानः विसृज्यमानः यः चिरपरिणामः चिरकालावस्थित्या परिपाकः तेन निर्मलः यो वासुकेर्निर्मोकः कञ्चुकः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । तस्य शकलं खण्डमेव परिधानं
अधोंऽशुकं तस्य संजिघृक्षा सङ्ग्रहीतुमिच्छा । अथवा निर्मोकशकलस्येति कर्मणि षष्ठीं कृत्वा परिधानार्थं सञ्जिघृक्षेति योजना बोध्या । 'अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके' इत्यमरः । तस्यै अनुधावन्तः अनुगच्छन्तः, ये प्रमथाः पारिषदाः, तेषां यूथस्य सङ्घस्य, निनादेन कलकलेन, मेदुर:रः सान्द्रः तथाभूतं अत्यायासेन परिश्रान्तः परिश्रमं प्राप्तो जरन् वृद्धः यः उरगराजो वासुकिः ।
'जीनो जीर्णो जरन्नपि' इत्यमरः । तेन समुद्वान्ता उद्गीर्णाः परुषः क्रूरो यो
[^१] "दुग्धशीकरास्वादसुहितः भुजगराजः" -- पयःपानमेव खलु भुजगानां
प्रीतिकरमिति लोकप्रसिद्धिं सूचयति ॥ अत एव वल्मीके दुग्धधारापातः वन्ध्याभिः क्रियते
नागशापपरिहाराय ॥
[commentary]
समुद्भाविता तर्किता या अकाण्डः अकालः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । तस्मिन् सन्ध्या सन्ध्याकालः तया संसूचितः हालाहलोपप्लवो विषसम्बन्ध्युपद्रवः यस्मिन् स तथाभूतं उत्प्लवमानाः उत्प्लुतिं प्राप्नुवन्तो ये दुग्धकणाः क्षीरशीकरा तेषामासारः । आस्वादः इति पाठान्तरम् । धारासम्पातः, आघ्राणनं वा तेन सुहितः तृप्तो, यो भुजङ्गराजो वासुकिः, तस्य यो भोगः कायः । 'भोग
पद्मसम्भवो ब्रह्मा यस्मिन् स तथाभूतम् । उभौ च तौ पार्श्वो चेति कर्मधारयः । तयोः सङ्घटिताः सम्बद्धाः संयोजिता इति वाऽर्थः । ये शिलानां सङ्घाः तेषां सङ्घर्षणम् उल्लेखनं, तेन सुखम् अनायासं निर्मुच्यमानः विसृज्यमानः यः चिरपरिणामः चिरकालावस्थित्या परिपाकः तेन निर्मलः यो वासुकेर्निर्मोकः कञ्चुकः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । तस्य शकलं खण्डमेव परिधानं
अधोंऽशुकं तस्य संजिघृक्षा सङ्ग्रहीतुमिच्छा । अथवा निर्मोकशकलस्येति कर्मणि षष्ठीं कृत्वा परिधानार्थं सञ्जिघृक्षेति योजना बोध्या । 'अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके' इत्यमरः । तस्यै अनुधावन्तः अनुगच्छन्तः, ये प्रमथाः पारिषदाः, तेषां यूथस्य सङ्घस्य, निनादेन कलकलेन, मेदु