This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
E
 
;
 
संसूचितहालाहलोपप्लवम् उपवमानसागरदुग्धशीकरास्वादसु [^१]हितभुज-
गराजभोगप्रसारण- वेगपतदुत्पतत्सुरासुरस्तोमपर्यवस्थापनव्यग्रपद्मसम्भ-
म्, उभय पार्श्वसङ्घटितशिलासङ्घसङ्घर्षणसुखनिर्मुच्य मानचिरपरिणामनि-
र्मलवासुकिनिर्मोकशकल- परिधानसञ्जिघृक्षानुधावत्प्रमथयूथनिनादमे-
दुरम्, अत्यायासपरिश्रान्तजर दुरग राजसमुद्धान्त वान्तपरुष- विषानलज्वालाकला-

 
[commentary]
 
समुद्भाविता तर्किता या अकाण्ड:डः अकालनेलः । काण्डोऽस्त्री दण्डवाबाणार्ववर्गावस-
खा
रवारिषु' इत्यमरः । तस्मिन् सन्ध्या सन्ध्याकालः तया संसूचितः हालाहलोप-
प्लवो विषसम्बन्ध्युपद्रवः यस्मिन् स तथाभूतं उत्प्लवमानाः उत्प्लुतिं प्राप्नुवन्तो
ये दुग्धकणाः क्षीरशीकरा तेषामासार:रः । आस्वादः इति पाठान्तरम् । घाधारासम्पातः,
आघ्राणनं वा तेन सुहितः तृप्तो, यो भुजङ्गराजो वासुकिः, तस्य यो भोगः
काय:यः । 'भोगत्सुखे ख्स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । तस्य प्रसार
णं दीर्घीकरणं तस्य वेगो जवः, तस्मिन् प्तन्तः पतनं कुर्वन्त:तः उत्पतन्तः उत्तिष्ठ-
न्तश्च ये सुरासुरास्तेषां स्तोम:मः समूहः तस्य पर्यवस्थापनं मथनकर्मण्येव
स्थापनं पलायनादिकं प्रतिषिध्येति भावः । तस्मिन् व्यग्रो जागरूकः

पद्मसम्भवो ब्रह्मा यस्मिन् स तथाभूतम् । उभौ च तौ पार्श्वो चेति
कर्मधारयः । तयोः सङ्घटिताः सम्बद्धाः संयोजिता इति वाऽर्थः । ये शिलानां
सङ्घाः तेषां सङ्घर्षणम् उल्लेखनं, तेन सुखम् अनायासं निर्मुच्यमानः विसृज्यमानः यः
चिरपरिणाम:मः चिरकालावस्थित्या परिपाकः तेन निर्मल:लः यो वासुकेर्निर्मोक:
कः कञ्चुक:कः । 'समौ कञ्चुक निर्मोकौ' इत्यमरः । तस्य शकलं खण्डमेव परिधानं

घोंधोंऽशुकं तस्य संजिघृक्षा सङ्ग्रहीतुमिच्छा । अथवा निर्मोकशकलस्येति कर्मणि
षष्ठीं कृत्वा परिधानार्थ सथं सञ्जिघृक्षेति योजना बोध्या । 'अन्तरीयोपसंव्यान-
परिधानान्यधोंऽशुके' इत्यमरः । तस्यै अनुधावन्तः अनुगच्छन्तः, ये प्रमथाः
पारिषदाः, तेषां यूथस्य सङ्घस्य, निनादेन कलकलेन, मेदुर: सान्द्रः तथाभूतं
अत्यायासेन परिश्रान्तः परिश्रमं प्राप्तो जरन् वृद्धः यः उरगराजो वासुकिः ।

'जीनो जीर्णो- जरन्नपि' इत्यमरः । तेन समुद्रावान्ता उद्गीर्णाः परुषः क्रूरो यो
 
2
 
30
 
t
 
३६६
 
w
 
1.

 
[^१] "
दुग्धशीकरास्वादसुहितः भुजगराज:जः" - पय:- पयःपानमेव खलु भुजगानां

प्रीतिकरमिति लोकप्रसिद्धिं सूचयति ॥ अंत एवं वल्मीके दुग्धंधारापात: पतः वन्ध्याभिः क्रियते
मानशी

नागशा
पपरिहारा
 
""