This page has been fully proofread twice.

गमदितिसुताः । अनन्तरमन्तर्भ्रमदचलराजमूलशिलासङ्घसङ्घर्षणकण्डूयननिद्राणकमठराज- निःश्वासपरम्परापरिहृतपवनाशनलोकदुर्भिक्षम्, अभितःप्रकीर्णदुग्धकल्लोलनिपातपरिपूरित- शुद्धजलार्णवम्, आमूलपरिभ्रमदमृतसागरैकावर्तपरिभ्रमिततिमितिमिङ्गिलोद्गीर्णतत्काल- निगीर्णाजीर्णशफरतर्णकाकीर्णम्, अत्युच्चशिखरिशिखरनिष्पतदच्छनिर्झरस्रोतोनिपातपरिधौत-
चक्रवाळशिलाचक्रम्,अतिरभससमुद्धृतधातुरागसमुद्भाविताकाण्डसन्ध्या-
 
[commentary]
 
मिदम् । 'तस्येदम्' (४.३.१२०) इत्यण्प्रत्ययः । तादृशं परिकल्प्य निश्चित्य विहायेत्यर्थः । वालभागं लाङ्गूलपार्श्वं जगृहुः दधुरित्यर्थः । अथ मन्थनपरिपाटीं वर्णयति ॥ अनन्तरमिति ॥ अनन्तरं मुखपुच्छभागयोः दैत्यदेवग्रहणानन्तरं अन्तः क्षीरार्णवकुक्षौ भ्रमन् घूर्णमानो यः अचलराजो मन्दरः तस्य मूले याश्शिलाः तासां सङ्घस्समूहः तेन सङ्घर्षणं लोडनं तदेव कण्डूयनं तेन निद्राणः शयितः यः कमठराजः कूर्मः । 'निद्राणशयितौ समौ' 'कूर्मः कमठकच्छपौ' इति च अमरः । तस्य श्वासानां
मुखनासिकवायूनां याः परम्पराः पङ्क्तयः ताभिः परिहृतम् अपोहितं, पवनाशनानां सर्पाणां लोके भुवने । 'लोकस्तु भुवने जने' इत्यमरः । दुर्भिक्षमन्नालाभव्यसनं यस्मिन् स तथाभूतं किं च अभितस्सर्वतः विकीर्णाः विक्षिप्ताः ये दुग्धकल्लोलाः क्षीरतरङ्गाः तेषां निपातो निपतनं तेन पूरितः भरितः, शुद्धजलार्णवः शुद्धोदकसमुद्रः यस्मिन् स तथाभूतं आमूलं मूलदेशमारभ्येत्यर्थः । परिभ्रमन्तः विघूर्णमानाः ये अमृतार्णवस्य समुद्रस्यावर्ताः उदकभ्रमाः 'स्यादावर्तोऽम्भसां भ्रमः’ इत्यमरः । तैः परिभ्रमिताः विघूर्णनं प्रापिताः ये तिमितिमिङ्गिलाः मत्स्यविशेषाः तैरुद्गीर्णाः वान्ताः, तत्कालनिगीर्णाः तत्क्षणगळिताः अजीर्णा ये शफरतर्णका मीनशिशवः । 'सद्योजातस्तु तर्णकः' इत्यमरः । तैराकीर्णं व्याप्तम् अत्युच्चानि अत्युन्नतानि, यानि शिखरिणां पर्वतानां शिखराणि । 'उच्चप्रांशून्नतोदग्रे' इत्याद्यमरः । तेभ्यो निष्पतन्तो ये अच्छाः स्वच्छोदकाः निर्झरा गिरिनदीप्रवाहाः ॥ 'प्रवाहो निर्झरो झरः' इत्यमरः । तेषां स्रोतांसि अम्बुसरणानि । 'स्रोतोऽम्बुसरणं सृतिः' इत्यमरः । तेषां निपातेन, धौतं क्षाळिंत, चक्रवाळस्य लोकालोकपर्वतस्य शिलानामुपलानां चक्रं समूहो यस्मिन् सः । 'चक्रं जालं तु जालकम्' इत्यमरः । तथाभूतं अतिरभसोऽत्यन्तमथनत्वरा तेन समुद्भूताः समुत्पन्नाः धातूनां मनश्शिलादीनाम् । 'धातुर्मनश्शिलाद्यद्रेः' इत्यमरः । रागः आरुण्यं तेन