This page has been fully proofread once and needs a second look.

तुरीया श्वांसः
 
र्मदितिसुताः। अनन्तरभ । अनन्तरमन्तर्भ्रमदचलराजमूलशिलासङ्घसङ्घर्षणकण्डूयनं
निद्राणकमठराज- निःश्वासपरम्परांरापरिहृतपवनाशनलोकदुर्भिक्षम्, अभितः-
प्रकीर्णदुग्धकल्लोलनिपातपरिपूरित- शुद्धजलार्णवम्, आमूलपरिभ्रमदमृतसा-
गरैकोकावर्तपरिभ्रमिततिमितिमिङ्गिलोद्गीर्णतत्काल- निगीर्णाजीर्णशफरत-
र्णकाकीर्णम्, अत्युच्चशिखरिशिखरनिष्पतदच्छनिर्झर स्रोतोनिपातपरिधौत-

चक्रवाळशिलाचक्रम्,अतिरभससमुद्धृतधातुरागसमुद्भाविताकाण्डसन्ध्या-

 
[commentary]
 
मिदम् । 'तस्येदम्' (4-3-120४.३.१२०) इत्यण्प्रत्ययः । तादृशं परिकल्प्य निश्चित्य विहाये-
त्यर्थःय बा । वाभांगभागं लाङ्गूलपार्श्वं जगूगृहुः दधुरित्यर्थः । अथ मन्थनपरिपाटीं वर्णयति ॥
अनन्तरमिति ॥ अनन्तरं मुखपुच्छभागयोः दैत्यदेवग्रहणानन्तरं अन्तः क्षीरार्णव-
कुक्षौ भ्रमन् घूर्णमानो य:यः अचलराजो मन्दरः तस्य मूले याश्शिलाः तासां सङ्घ-
स्समूह:हः तेन सङ्घर्षणं लोडनं तदेव कण्डूयनं तेन निद्राणः शयितः यः कमठराज:
जः कूर्मः । 'निद्राणशयितौ समौ' 'कूर्मः कमठकच्छपौ' इति च अमरः । तस्य श्वासानां

मुखनासिकवायूनां याः परम्पराः पङ्क्तय:यः ताभिः परिहृतम् अपोहितं, पवनाशनानां
सर्पाणां लोके भुवने । 'लोकस्तु भुवने जने' इत्यमरः । दुर्भिक्षमन्नालाभ-
व्यसनं यस्मिन् स तथाभूतं किं च अभितस्सर्वतः विकीर्णाः विक्षिप्ताः ये दुग्ध-
कल्लोला:लाः क्षीरंतरङ्गाः तेषां निपातो निपतनं तेन पूरित:तः भरित:तः, शुद्धजलार्णवः
शुद्धोदकसमुद्रः यस्मिन् स तथाभूतं आमूलं मूलदेशमारभ्येत्यर्थः । परिभ्रमन्तः
विघूर्णमाना:नाः ये अमृतार्णवस्य समुद्रस्यावर्ताः उदकश्रमा:भ्रमाः 'स्यादावर्तोऽम्भसां
भ्रमः इत्यमरः । `तैः परिभ्रमिताः विघूर्णनं प्रापिताः ये तिमितिमिङ्गिलाः
मत्स्यविशेषाः तैरुद्गीर्णाः 'वान्ताः, तत्कालनिगीर्णा;णाः तत्क्षणगळिता:ताः अजीर्णा ये
शे
फरतर्णका भीमीनशिशवः । 'सद्योजातस्तु तर्णकः' इत्यमरः । तैराकीर्णं व्याप्तम्
अत्युच्चानि अत्युन्नतानि, यानि शिखरिणां पर्वतानां शिखराणि । 'उच्चप्रांशून्नतोदमे '
ग्रे' इत्याद्यमरः । तेभ्यो निष्पतन्तो ये अच्छाः स्वच्छोदकाः निर्झरा गिरिनदी -
प्रवाहाः ॥ "'प्रवाहो निर्झरो झरः' इत्यमरः । तेषां स्रोतांसि अम्बुसरणानि ।
'स्रोतोऽम्बुसरणं सृतिः' इत्यमरः । तेषां निपातेन, धौतं क्षाळिंत, चक्रवाळस्य लो-
कालोकपर्वतस्य शिलानामुपलानां चक्रं समूहो यस्मिन् सः । 'चक्रं जालं तु जालकम्'
इत्यमरः । तथाभूतं अतिरभसोऽत्यन्त मथनत्वरा तेन समुद्भूताः समुत्पन्नाः
धातूनां मनश्शिलादीनाम् । 'घाधातुर्मनश्शिलाद्यद्रेः' इत्यमरः । राग:गः आरुण्यं तेन
N - 34
 
२६५