2023-06-29 10:34:37 by Bharadwajraki
This page has not been fully proofread.
अपिच
प्रथमाश्वासः
लीढालीढपुराणसूक्तिशकलावष्टम्भसम्भावना-
पर्यस्त श्रुतिसेतुभिः कतिपयैर्नीते कलौ सान्द्रताम् ।
श्रीकण्ठोऽवततार यस्य वपुषा कल्क्यात्मनेवाच्युतः
श्रीमानप्पयदीक्षितस्स जयति श्रीकण्ठविद्यागुरुः ॥ ३ ॥
AW
,
---------------
वन्दनकर्म विशेषतो निर्देशं नैव क्षमते इत्याशङ्कय शिवादन्येषां सर्वेषां च देवानां
तच्छक्तयुपोद्वलितस्वशक्तिकत्वेन अनीश्वरत्वं मनसि निधायावतारविशेषे सर्वा-
तिश। यिशक्तिप्रतिपादनेन अपृथक्सिद्धमिथुनात्मकस्यैव शिवस्य सर्वोत्तमत्वं, तस्मात्
स्तुतिपात्रत्वञ्च प्रतिपादयति ॥ दृष्टेति ॥ कौस्तुभं रत्नं, अप्सरोगणं देवगणिकानि-
करञ्च, दृष्ट्वा । मिथ: परस्परम् । प्रक्रान्तवादा: प्रकान्ता: आरब्धाः वादाः
ममेदं ममेयमित्यादिविवादा यैस्ते तथोक्ताः । दिवः स्वर्गस्य, केवलमत्यन्तं, भाराः
भारभूताः, गीर्वाणा: देवाः, भुवने जगति, कति वा न सन्ति अनेकसङ्ख्याकास्स-
न्त्येवेत्यर्थः । एतेन यद्यपि बहवो गीर्वाणास्सन्ति तथापि तेषामनाप्तकामत्वान्न
परमेश्वरत्वगित्युक्तं भवति । उक्तं तेषामनीश्वरत्वं भीतिमत्त्वकथनेनापि द्रढयन्
सकल जगदभयदानकथनेन अटथविसद्ध मिथुनात्मक स्वरूपस्येश्वरस्य सर्वोत्तमत्वात्
तस्यैव स्तुतिं प्रतिजानन् स्तव्यस्यैव वन्द्यत्वं स्वाभिमतं स्वाभिमतवन्द्यस्वरूपस्य च
यथा न निर्देशार्हता तथा प्रागेवाभ्यघायीति प्रथम श्लोके वन्दनकर्मत्वेनाभिप्रेतस्य
शिवस्य सर्वोत्तमत्वं प्रतिपादयति ॥ निष्क्रान्त इत्यादिना ॥ गरळे हालाहले,
निष्क्रान्ते सागरादुद्गते सति । सुरगणे देवसमूहे, द्रुते पलायिते सति । विष्टपे समस्ते-
ऽपि जगति, निश्चष्टिते सति चेष्टाशून्ये सति । यो देवः, मा भैष्टेति गिरा सह भयं
नाप्नुवतेति वाचा साकं, धुर्यग्रे, आविरास आविर्वभूव । गिरा सह आविरासेत्युक्त्या
भगवतस्सर्वशक्तित्वं निरूप्यते, इतरथा भयहेतुमननुसन्धायाभयदानानौचियात् ।
तं शिवमेव स्तुम: स्तुतिकर्मतया गृह्णीमः । एवकारेणान्येषां बहूनां सत्त्वेऽपि
तेषां स्तुतिकर्मतया अविवक्षितत्वं प्रतिपाद्यते । तेन कर्मतया विवक्षितस्ये-
श्वरस्य अर्धनारीनरमूर्तरेव सकल निगमागमप्रसिद्धतया कि दम्पतिमित्यादि प्रागुक्तं
समञ्जसिमित्यनुसन्धेयम्' । इत्थं सोपपत्तिकं मङ्गळम रचय्येदानीं स्वग्रन्थप्रति-
1. सकर्मकस्यापि वन्दतेर्निष्कर्म कप्रयोगसामञ्जस्य प्रतिपादकः द्वितीय श्लोक इसि तात्पर्यम् ॥
प्रथमाश्वासः
लीढालीढपुराणसूक्तिशकलावष्टम्भसम्भावना-
पर्यस्त