This page has been fully proofread twice.

संवेष्टयन्नथ समन्दरमम्बुराशौ
सार्धद्वयेन वलयेन भुजङ्गराजः ।
पार्श्वद्वयेऽपि शतयोजनमुच्छिशेष
पुच्छं मुखं च मथनाय सुरासुराणाम् ॥ १ ॥
 
ततः पूर्वजैः [^१]पूर्वकायः फणिपतेः अवरजैरपरकायश्च परिग्राह्य इति न्यायमाचक्षाणेषु दानवेषु, कटाक्षेण कमलाक्षस्य, शासनेन च स्वयम्भुवः समुत्साहिताः परिकल्प्य शिरोभागमासुरम्, परिजगृहुर्वालभा-
 
[commentary]
 
देवानाममृतप्राप्तौ गतो यो मुख्यहेतुताम् ।
तमिहानन्दसम्प्राप्त्यै फणिराजमुपास्महे ॥
 
अथ कालकूटोत्पत्तिं तद्भक्षणरूपपरमेश्वरचरितं च वर्णयिष्यन्नादौ मथनप्रकारादिकमाह । संवेष्टयन्निति ॥ अथानन्तरं स भुजङ्गराजो वासुकिः, अर्धयोर्द्वयं अर्धद्वयं तेन सहितः सार्धद्वयः । अर्धाभ्यां सहितं सार्धं तथाभूतं च तद्वलयं चेति वाऽर्थः । तथाभूतेन वलयेन अम्बुराशौ समुद्रे मन्दरं संवेष्टयन् वेष्टनं कुर्वन्सन् मुखं मुखभागः पुच्छं बालुवालभागश्चेति पार्श्वद्वये उभयपार्श्वयोः शतयोजने
यस्मिन् कर्मणि तद्यथा भवति तथा सुरासुराणाम् । कर्तरि षष्ठीयम् । मथनाय मथनार्थं उच्छिशेष अवशेषो बभूवेत्यर्थः । तथाच वलयितांशं विहाय मुखभागे शतयोजनभागं पुच्छभागे एकशतयोजनभागमवशेषितवानिति भावः । अथ वलयितं वासुकिं, उभयेऽपि जगृहुरित्याह ॥ तत इति ॥ ततो वेष्टनानन्तरं दानवेषु पूर्वजैः ज्येष्ठैरस्माभिरिति भावः । पूर्वः कायस्य पूर्वकायः शिरोभाग इत्यर्थः । अवरजैः कनिष्ठैः । देवैरिति भावः । अपरः कायस्यापरकायः । पुच्छभाग इत्यर्थः । ग्राह्यः स्वीकर्तव्य इत्यर्थः । इति इत्थं न्यायं उपपत्तिं आचक्षाणेषु वदत्सु सत्सु कमलाक्षस्य कटाक्षेण अपाङ्गदर्शनेन स्वयम्भुवो ब्रह्मणश्च शासनेन आज्ञया चानुगृहीताः, अदितिसुताः देवाः, शिरोभागं वासुकेरिति भावः । आसुरं असुराणा-
 
[^१] ज्येष्ठस्य पूर्वमुत्पन्नस्य पूर्वकायः, कनिष्ठस्य च पश्चादुत्पन्नस्य अपरकाय इति दानवा एवाब्रुवन् ॥