2023-06-05 16:40:29 by ambuda-bot
This page has not been fully proofread.
अथ तुरीया श्वासः ॥
संवेष्टयन्नथ समन्दरमम्बुराशौ
सार्धद्वयेन वलयेन भुजङ्गराजः ।
पार्श्वद्वयेऽपि शतयोजनमुच्छिशेष
पुच्छ मुखं च मथनाय सुरासुराणाम् ॥ १ ॥
ततः पूर्वजैः पूर्वकायः फणिपतेः अवरजरपरकायश्च परिग्राह्य
इति न्यायमाचक्षाणेषु दानवेषु, कटाक्षेण कमलाक्षस्य, शासनेन च
स्वयम्भुवः समुत्साहिताः परिकल्प्य शिरोभागमासुरम्, परिजगृहुर्वालभा-
#
देवानाममृतप्राप्तौ गतों यो मुख्यहेतुताम् ।
तमिहानन्द सम्प्राप्त्यै फणिराजमुपास्महे ॥
अथ कालकूटोत्पत्ति तद्भक्षणरूप परमेश्वरचरितं च वर्णयिष्यन्नादौ मथन-
प्रकारादिकमाह । संवेष्टयन्निति ॥ अथानन्तरं स भुजङ्गराजो वासुकिः, अर्ध-
योर्द्वयं अर्धद्वयं तेन सहितः सार्धद्वयः । अर्घाभ्यां सहितं सार्धं तथाभूतं च तद्वलयं
चेति वाऽर्थः। तथाभूतेन वलयेन अम्बुराशौ समुद्रे मन्दरं संवेष्टयन् वेष्टनं कुर्वन्
सन् मुख मुखभाग: पुच्छ बालुभागश्चेति पाध्ये उभयपार्श्वयोः शतयोजने
यस्मिन् कर्मणि तद्यथा, भवति तथा सुरासुराणाम् । कर्तरि षष्ठीयम् । मथनाय
मथनार्थ उच्छिशेष अवशेषो बभूवेत्यर्थः । तथाच वलयितांश विहाय मुखभागे
शतयोजनभाग पुच्छभागे एकशतयोजनभागमवशेषितवानिति भावः । अथ वलयित
बासुकिं, उभयेऽपि जगूहुरित्याह ॥ तत इति ॥ ततो वेष्टनानन्तरं दानवेषु
पूर्वजैः ज्येष्ठैरस्माभिरिति भावः । पूर्व: कायस्थ पूर्वकायः शिरोभाग इत्यर्थः ।
अवरजैः कनिष्ठैः । देवैरिति भावः । अपर: कायस्यापरकायः । पुच्छभाग
इत्यर्थः । ग्राह्यः स्वीकर्तव्य इत्यर्थः । इति इत्थं न्यायं उपपत्तिं आचक्षाणेषु वदत्सु
सत्सु कमलाक्षस्य कटाक्षेण अपाङ्गदर्शनेन स्वयम्भुवो ब्रह्मणश्च शासनेन आज्ञया
चानुगृहीताः, अदितिसुताः देवाः, शिरोभार्ग वासुकेरिति भावः । आसुरं असुराणा-
"
1. ज्येष्ठस्य पूर्वमुत्पन्नस्य पूर्वकायः कनिष्ठस्य च पञ्चादुत्पन्नस्य अपरकाय इति
दानवा एवाब्रुवन् ॥