This page has been fully proofread twice.

इति दत्तवरो वासुकिरिन्दिरारमणेन, परितोषयन् सुरासुरान्, पश्यत्सु वैमानिकेषु, समुत्प्लुत्य वेगेन, सद्यःकृत्तविद्रुमकाण्डवत् संवेष्टयामास भोगेन [^१]मन्दरगिरेराभोगम् ।
 
प्रणमन्तः स्तुवन्तश्च भगवन्तं जनार्दनम् ।
ववल्गुश्च जगर्जुश्च वासवाद्यास्सुरासुराः ॥ ७३ ॥
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशत-
प्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पय्यदीक्षितसोदर्यश्रीमदाञ्चान्-
दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन
श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये
चम्पुकाव्ये तृतीय आश्वासः ॥
 
[commentary]
 
इति द्वितीयकाण्डे । काममत्यन्तं वेष्टय वेष्टनं कुरु । सुरासुराः देवासुराः । विरोधस्याशाश्वतिकत्वादेव 'येषां च विरोधश्शाश्वतिकः' (२.४.९) इति गोव्याघ्रादिवदेकवद्भावाभावः । त्वां भवन्तं कर्षन्तु आकर्षणं कुर्वन्त्वित्यर्थः ॥ इतीति ॥ इति इत्थं इन्दिरारमणेन रमाकान्तेन दत्तः वितीर्णः वरः सामर्थ्यलक्षणप्रसादो यस्य स तथाभूतो वासुकिः सर्पराजः सुरासुरान् परितोषयन् सन्तोषं प्रापयन्नित्यर्थः । विमानेन व्योमयानेन चरन्तीति वैमानिकाः । सिद्धचारणादयः इति यावत् । तेषु पश्यत्सु द्रष्टृषु सत्सु । सद्यः वेगेन जवेन समुत्प्लुत्य समुत्प्लवनं कृत्वा मन्दराद्रेः आभोग पूर्णताम् । 'आभोगौ पूर्णतायत्नौ' इति भास्करः । कृत्तः वात्यादिना समीकृतः यो विद्रुमकाण्डः प्रवाळदण्डः तेन तुल्यं यथा तथा वेष्टयामास संवेष्टनं चकारेत्यर्थः ॥ प्रणमन्त इति ॥ भगवन्तं षड्गुणैश्वर्यसम्पन्नं जनादनं श्रीहरिं प्रणमन्तः प्रणामं कुर्वन्तः स्तुवन्तः स्तुतिं कुर्वन्तः वासवाद्या इन्द्रादयः, सुरासुराः, ववल्गुः प्रचेलुः । मन्थनार्थमिति भावः । जगर्जुः सिंहनादं चक्रुः । [^१]कार्यस्य करगतप्रायत्वादिति भावः ॥
 
इति श्रीमद्भारद्वाजवेल्लालमहादेवसूरिविरचिते नीलकण्ठविजयव्याख्याने
विबुधानन्दाख्याने तृतीयाश्वासविवृतिः ॥
 
[^१] मन्थानस्य मन्दरस्य, दाम्नः वासुकेश्चानयनानन्तरं मथनं सुशकमिति कार्यस्य करगतप्रायत्वम् ॥
 
॥ तृतीय आश्वासः समाप्तः ॥