This page has not been fully proofread.

तृतीयाश्वासः
 
२६३
 
इति दत्तवरो वासुकिरिन्दिरारमणेन, परितोषयन् सुरासुरान्,
पश्यत्सु वैमानिकेषु, समुत्प्लुत्य वेगेन, सद्यः कृत्तविद्रुमकाण्डवत् संवेष्ट-
यामास भोगेन 'मन्दरगिरेराभोगम् ।
 
प्रणमन्तः स्तुवन्तश्च भगवन्तं जनार्दनम् ।
ववल्गुश्च जगर्जुश्च वासवाद्यास्सुरासुराः ॥ ७३ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमत प्रतिष्ठापनाचार्यचतुरधिकशत-
प्रबन्धनिर्वाहकश्रीमन्महाव्रतया जिश्रीमदप्पय्यदीक्षितसोदर्यश्रीमदाञ्चान्-
दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन
श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये
`चम्पुकाव्ये तृतीय आश्वासः ॥
 
इति द्वितीयकाण्डे । काममत्यन्तं वेष्टय वेष्टनं कुरु । सुरासुराः देवासुराः ।
विरोधस्याशाश्वतिकत्वादेव येषां च विरोधश्शाश्वतिक (249) इति
गोव्याघ्रादिवदेकवद्भावाभावः । त्वां भवन्तं कर्षन्तु आकर्षणं कुर्वन्त्वित्यर्थः ॥
इतीति ॥ इति इत्थे इन्दिरारमणेन रमाकान्तेन दत्तः वितीर्णः वरः सामर्थ्य -
लक्षणप्रसादो यस्य स तथाभूतो वासुकि : सर्पराजः सुरासुरान् परितोषयन् सन्तोषं
प्रापयन्नित्यर्थः । विमानेन व्योमयानेन चरन्तीति वैमानिकाः । चिद्धचारणादयः
इति यावत् । तेषु पश्यत्सु द्रष्टृषु सत्सु । सद्यः वेगेन जवेन समुत्प्लुत्य समुत्प्लवनं
कृत्वा मन्दराद्रेः आभोग पूर्णताम् । 'आभोगौ पूर्णतायत्नौ' इति भास्करः ।
कृत्त: वात्यादिना समीकृतः यो विद्रुमकाण्ड : प्रवाळदण्डः तेन तुल्यं यथा तथा
वेष्टमस संवेष्टन चकरित्यर्थः ॥ प्रणमन्त इति ॥ भगवन्तं षड्गुणैश्वर्य-
सम्पन्न जनादन श्रीहरि प्रणमन्तः प्रणामं कुर्वन्तः स्तुवन्तः स्तुतिं कुर्वन्तः
वासवद्या इन्द्रादयः सुरासुराः, बवल्गुः प्रचेलुः । मन्थनार्थमिति भावः ।
जगजु सिंहनादं चक्रुः । कार्यस्य करगतप्रायत्वादिति भावः ॥
इति श्रीमद्भारद्वाजवेलालमहादेवसूरिविरचिते नीलकण्ठ विजयव्याख्याने
"विबुधानेन्दाख्याने तृतीयांश्वासविवृतिः ॥
 
20
 
1. मन्थानस्य मन्दरस्य, दाम्नः वासुकेश्चानयनानन्तरं मथनं सुशकमिति कार्यस्य
करगेतप्रायत्वम् ॥
 
॥ तृतीय आश्वासः समाप्तः ॥