2023-08-15 07:30:47 by Bharadwajraki
This page has been fully proofread twice.
इति स्तूयमानमब्जसम्भवादिभिरिन्दिरारमणो वासुकिमिदमवादीत् । 'वत्स वासुकै न वक्तव्यमिदं त्वया ।
परिजानतैव हि भक्तिमियतीमपि मया प्रतिष्ठापितोऽसि प्रथमभुवनाधिपत्ये । तदिदानीं माहेश्वरं धनुरनुस्पृश्य सम्पादितं यशो [^१]माहेश्वरं गिरिमिमं प्रदक्षिणीकृत्य परिवर्धयेत्यादिशामि ।
तेजसाऽऽप्याययिष्यामि दिव्येन त्वामसंशयम् ।
कामं वेष्टय मन्थाद्रिं कर्षन्तु त्वां सुरासुराः ॥ ७२ ॥
[commentary]
शिक्षादिवेदाङ्गैः किमित्यर्थः । पुराणेन स्कान्दादिना वा किम् । वेदशास्त्रादिभिर्यद्यद्भवति तत्सर्वस्यापि भगवच्चरणारविन्दभक्त्यैव सम्भवात्तैस्साध्यं न भवतीति भावः ॥ इतीति । इति इत्थं अब्जसम्भवो ब्रह्मा आदिर्येषां तैः स्तूयमानं स्तुतिभाजनीक्रियमाणं वासुकिं सर्पराजम् इन्दिरारमणः श्रीपतिर्विष्णुरिदं वचनमवादीदभाणीदित्यर्थः ॥ वत्सेति ॥ हे वत्स वासुके त्वया इदं न वक्तव्यं अभक्तविषयत्वात् पूर्वोक्तवचनस्येति भावः ॥ परीति ॥ इयतीमेतावतीमपि भक्तिं मयि तवानुरागमित्यर्थः । 'पूज्येष्वनुरागो भक्तिः' इति महोपाध्यायवचनात् । परिजानता जानानेनैव मया प्रथमभुवनं पाताळं तस्याधिपत्ये प्रतिष्ठितः निक्षिप्तः तदिदानीं त्रिपुरसंहारकाल इत्यर्थः । माहेश्वरं
परमेश्वरसम्बन्धि धनुः मेरुपर्वतरूपमिति भावः । अनुस्पृश्य स्पृष्ट्वा सम्पादितम् आसादितमित्यर्थः । ज्यारूपत्वात्तवेति भावः । यशः कीर्तिं माहेश्वरं महेश्वरसम्बन्धिनमित्यर्थः। तदावासत्वात्तस्येति भावः । इमं गिरिं एतं मन्दरं प्रदक्षिणीकृत्य वेष्टयित्वेति भावः । परिवर्धय वृद्धिं प्रापय इति इत्थं आदिशामि कथयामि इत्यर्थः । ममात्यन्तभक्तत्वात्तवेति भावः ॥ तेजसेति ॥ दिव्येन श्लाघ्येन, तेजसा प्रभावेन, दीप्तया बलेनेति वाऽर्थः । 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यथ त्रिषु' इत्यमरः । आप्याययिष्यामि विगततापं करिष्यामि इत्यर्थः । अत्रार्थे असंशयं संशयो नास्ति इत्यर्थः । मन्थश्चासावद्रिश्चेति कर्मधारयः । तथाभूतमद्रिम् । अत्र मन्थपदेन मन्थनोपयोगिदण्ड इति बोध्यम् । तदुक्तममरेण 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डकः'
[^१] माहेश्वरगिरिप्रदक्षिणीकरणमेव प्रथमं श्रेयः, पश्चात्सुधालाभः इत्याशयः ।