This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
पेट
इति स्तूयमान मन्मब्जसम्भवादिभिरिन्दिरारमणो वासुकिमिदम-
वादीत् । 'वत्स वासुकै नः वक्तव्यमिदं त्वया ।
 

 
परिजानतैव हि भक्तिमियतीमपि मया प्रतिष्ठापितोऽसि
प्रथमभुवनाधिपत्ये । तदिदानीं माहेश्वरं धनुरनुस्पृश्य सम्पादितं यशो
'
[^१]माहेश्वरं गिरिमिमं प्रदक्षिणीकृत्य परिवर्धयेत्यादिशामि ।
 

 
तेजसाऽऽप्याययिष्यामि दिव्येन त्वामसंशयम् ।

कामं वेष्टय मन्थाद्रिरिं कर्षन्तु त्वां सुरासुराः ॥ ७२ ॥
 
"
 

 
[commentary]
 
शिक्षादिवेदाङ्गैः किमित्यर्थः । पुराणेन स्कान्दादिना वा किम् । वेद-
शास्त्रादिभिर्यद्यद्भवति तत्सर्वस्यापि भगवच्चरणारविन्दभक्तचैत्यैव सम्भवात्तैस्साध्यं न
"
भवतीति भावः ॥ इतीति । इति इत्थं अब्जसम्भवो ब्रह्मा आदिर्येषां
तैः स्तूयमानं स्तुतिभाजनी क्रियमाणं वासुकिकिं सर्पराजम् इन्दिरारमणः श्रीपति-
र्विष्णुरिदं वचनमवादीदभाणीदित्यर्थः ॥ वत्सेति ॥ हे वत्स वासुके त्वया इदं
न वक्तव्यं अभक्तविषयत्वात् पूर्वोक्तवचनस्येति भावः ॥ परीति ॥
इयतीमेतावतीमपि भक्तितिं मयि तवानुरागमित्यर्थः । 'पूज्येष्वनुरागो भक्ति: तिः'
इति महोपाध्यायुवचनात् । परिजानता जानानेनैव मया प्रथमभुवनं पाताळं
तस्याधिपत्ये प्रतिष्ठितः निक्षिप्तः तदिदानीं त्रिपुरसंहारकाल इत्यर्थः । माहेश्वरं

परमेश्वरसम्बन्धि धनुः मेरुपर्व॑तरूपमिति भावः । अनुस्पृश्य स्पृष्ट्वा सम्पादितम्
आसादितमित्यर्थः । ज्यारूपत्वात्तवेति भावः । यशः कीर्तितिं माहेश्वरं महेश्वर-
सम्बन्घ्निधिनमित्यर्थः। तदावासत्वात्तस्येति भावः । इमं गिरिं एतं मन्दरं
प्रदक्षिणीकृत्य वेष्टयित्वेति भावः । परिवर्धय वृद्धिधिं प्रापय इति इत्थं
 
15 D
 
?
 
आदिशामि कथयामि इत्यर्थः । ममात्यन्तभक्तत्वात्तवेति भावः ॥ तेजसेति ॥
दिव्येन श्लाघ्येन, तेजसा प्रभावेन, दीप्तया बलेनेति वाऽर्थः । 'तेज:जः प्रभावे
दीप्तौ च बले शुक्रेऽप्यथ त्रिषु' इत्यमरः । आप्याययिष्यामि विगततापं
करिष्यामि इत्यर्थः । अत्रार्थे असंशयं संशयो नास्ति इत्यर्थः । मन्थश्चा-
सावद्रिश्चेति कर्मधारयः । तथाभूतमद्रिम् । अत्र मन्थपदेन मन्थनोप-
योगिदण्ड इति बोध्यम् । तदुक्तममरेण 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डकः'
 
1.

 
[^१]
माहेश्वरगिरिप्रदक्षिणीकरणमेव प्रथमं श्रेयः, पञ्श्चात्सुधालाभ:भः इत्याशयः ।